________________
कयाचिदुपहासपूर्णया हीनदृष्ट्या पश्यति स्म; तया हीनदृष्ट्या, यया श्रमणः कश्चन सांसारिकजनान् पश्यति ।
___ यदि कदाचित् कामस्वामी केनचित् कारणेनाऽस्वस्थो भवति स्म, अवमाननं चाऽनुभवेत्, अथवा वाणिज्ये काश्चन बाधाः प्राप्नुयात्, सिद्धार्थस्तमुपहसति स्मैव सर्वदा । किन्तु शनैः शनैरव्यक्ततयैव तस्याऽतिशयित्वबुद्धिरुपहासवृत्तिश्च क्षीणा जाता । प्रत्युत, यथा यथा तस्य भौतिकसमृद्धिर्वृद्धिङ्गतास्तथा तथा स सामान्यजनानां काश्चन लाक्षणिकता - बालिशताचित्तोद्विग्नताद्या अपि समासादितवान् । एवंसत्यपि स जनानसूयते स्म । यथा यथा स प्राकृतजनवदाचरति स्म तथा तथाऽधिकतया स तानसूयते स्म । तस्याऽसूयायाः कारणं त्वेकमेवाऽऽसीत् - यथा सामान्यजना स्वजीवनस्य महत्त्वमवगच्छन्ति, स्वीयान् हर्ष-शोकादीन् गाढतयाऽनुभवन्ति, अविरतानुरागस्य च मधुररसं सोत्कण्ठमास्वादयन्ति - तथा स कर्तुं न पारयति स्म ।
प्राकृतजना हि स्वयमेव स्वस्मिन् स्निह्यन्ति, स्वापत्यानि प्रीणन्ति, मानं धनं च सप्रतिबन्धं रक्षन्ति, भावियोजनां, सुखस्पृहां च साकाङ्क्षतया विचारयन्ति । किन्तु सिद्धार्थ एतत् सर्वं तेभ्यो न शिक्षितवान् - न च बालिशसुखानि नाऽपि च मूढताम् । प्रत्युत तेषां यानि लक्षणानि तस्याऽनभिमततया तिरस्करणीयान्यासन्, तान्येव सोऽनायासं शिक्षितवानात्मसाच्च कृतवान् ।
बहुधा भवति स्मैवं यत् - सविलासां रात्रि यापयित्वा प्रातःकाले चिराय स उद्वेगं श्रमं चाऽनुभवन् शय्यामेवाऽऽश्रयति स्म । यदि कदाचित् कामस्वामी स्वचिन्ताभिस्तं बाधते स्म तदा सोऽमर्षणो भवति स्म । यदा स द्यूते धनं हारयति स्म तदा स्वोद्वेगं निह्नोतुमुच्चैर्हसति स्म । पुरा हि तस्य वदनमन्यजनेभ्योऽधिकं चतुरमधिकं प्रज्ञाशालि प्रसन्नं च भासते स्म, किन्तु
८३