________________
स्वपितुर्ब्राह्मणानां च सकाशात् स यद्यच्छिक्षितवान् तत् सर्वमपि - संयतं जीवनं, विचारवैशद्यं, दीर्घकालीनं ध्यानं, स्वात्मनो नित्यत्वस्य देहमनोभ्यामन्यत्वस्य च गूढं ज्ञानमित्येतेषामेकैकशो बोधस्यांऽशा निष्क्रिया उपेक्षिताश्च जातास्तथाऽपि किञ्चित्तु तत्राऽवशिष्यते स्म । प्रभूतो बोधस्तच्चित्ते सुदीर्घकालं स्पन्दमानो न्यवसत् । यथा कुम्भकारस्य चक्रं गतिमज्जातमेकदा, चिराय परिभ्राम्यति, ततश्च शनैः शनैर्मन्दभ्रमणं भूत्वा प्रान्ते स्थिरं भवति; तथा संयमस्य, विचारस्य विवेकस्य च चक्रं - सिद्धार्थचित्ते गतिमज्जातं - चिराय पर्यभ्राम्यत्, अधुनाऽपि परिभ्राम्यति स्म, किन्तु क्रमशो मन्दीभूतवेगं सस्खलनं च, स्तोकवेलया च स्थिरीभविष्यतीव। यथा विनश्यवृक्षप्रकाण्डं प्रविश्य क्लेदः शनैः शनैस्तं विशीर्णं करोति तथा संसारो जाड्यं च सिद्धार्थात्मनि प्रविश्य तं गुरुभारं, परिश्रान्तं, निद्रामग्नं च व्यधत्ताम् । किन्त्वन्यतस्तस्येन्द्रियाणि ह्यधिकाधिकं जागृतान्यभवन् । तानि बहु शिक्षितवन्ति ततोऽप्यधिकमनुभूतवन्ति च ।
वाणिज्यव्यापाराः कथं निर्वोढव्याः, जनानामुपरि कथमाधिपत्यमनुष्ठातव्यं, स्त्रीभिः सह कथं विलसितव्यमित्येतत् सर्वं तस्य सहजसाध्यं जातमासीत् । स उत्तमवस्त्राणि परिदधाति स्म, लघुलघुन्यपि कार्ये सेवकानादिशति स्म, सुगन्धितेन च जलेन स्नाति स्म । उत्तमतया संस्कृतं मिष्टान्नं मांसं स्वादूनि च व्यञ्जनानि भोक्तुं सुरापानं च कर्तुं तस्याऽभिरुचिर्वर्धते स्म, ततश्च प्रमादो विस्मृतिश्चाऽपि । विविधमनुष्याणां सङ्गत्या सोऽधुना द्यूतं चतुरङ्गं चाऽपि क्रीडितुं शिक्षितवानासीत् । नर्तकीनां नृत्याणि विलोकयितुं, शिबिकायामुपविश्य पर्यटितुं, कोमलतूलमयशय्यासु च शयितुं तस्मै रोचते स्म । किन्त्वेवंस्थितेऽपि स स्वमन्येभ्योऽतिशायिनं भिन्नं च मन्यते स्म सर्वदाऽपि । स सदैवाऽन्यान्