________________
३. संसारः
चिरकालाय सिद्धार्थः सांसारिकोऽभूत्वा संसारे जीवन् आसीत् । श्रमणावस्थायां सुषुप्तानि तस्येन्द्रियाणीदानीं पुनरपि जागृतानि आसन् । समृद्धः शृङ्गारभावस्य सत्तायाश्च स्वादस्तेन प्राप्त आसीत् । तथाऽपि चिराय सोऽन्तःकरणेन श्रमणवदेव जीवितवान् । चतुरा कमला ह्येतल्लक्षितवत्यासीत् । तस्य जीवनं सदाऽपि विचार-प्रतीक्षोपवासैरेव शासितमासीत् । जगतो जनाः - सामान्यजनास्तस्य कृते परदेशिन इव सञ्जाता आसन, सोऽपि च तेषां कृतेऽपरिचित इवैवाऽऽसीदधुनाऽपि ।।
वर्षाणि व्यतीतानि । अनुकूलसंयोगैः सर्वथा सुखीभूतः सिद्धार्थः कालविषये सर्वथाऽनवधान आसीत् । स धनिको जात आसीत् । चिरादेव तेन स्वकृते विशालं गृहं निर्मापितमासीद् यच्च सुस्थं रक्षितुं बहवः सेवका अपि तत्राऽऽसन् । नगराच्च बहिनदीतटे तेन स्वीयमेकमुद्यानमपि निर्मितमासीत् । जनास्तं प्रीणन्ति स्म, तथा यदाकदाचित् धनादीनां साहाय्यं मार्गदर्शनं च ग्रहीतुं तत्पाइँ समागच्छन्ति स्माऽपि । किन्त्वेतावताऽपि समग्रेऽपि नगरे कमलाया ऋते तस्य न केऽपि निकटस्नेहिन आसन् ।
____ अथ च महात्मनो गौतमबुद्धस्योपदेशस्य श्रवणानन्तरं गोविन्दाच्च वियोजनानन्तरं स्वीययौवने सिद्धार्थेन यदुत्कृष्टं प्रबुद्धचैतन्यमनुभूतमासीत्, तथा परमजागृतेविशुद्धेच्छा, गुरोः शास्त्रेभ्यश्च विनैव स्थातुमग्रेसर्तुं च गर्वः, स्वीयान्तःकरणे उद्भवतो दिव्यध्वनेः श्रवणार्थमुत्सुकता - एतत्सर्वमपि शनैः शनैः स्मृतिशेषं सञ्जातमासीत् । यः पवित्रश्चैतन्यनिर्झर एकदा तस्य हृदयासन्नमेव सकलकलं प्रवहमान आसीत् स क्रमशो दूरं गच्छन् क्षीयमाणनादश्चाऽभवत् । एवंस्थितेऽपि श्रमणानां सकाशाद, गौतमस्य,