________________
यदारभ्य सिद्धार्थो हृदयेन श्रामण्यं त्यक्तवान् तत्प्रभृति, यस्यां क्रीडायां पुरा स जनानुरोधेन तदुपहासपूर्वकं प्रावर्तत तस्यामेव द्यूतक्रीडायां स धनालङ्कारादिप्राप्त्यर्थमतीवोत्कटतया क्रीडितुमारब्धः । सोऽतीव दुर्धर्षोऽक्षक्रीडक आसीत् । तेन सह क्रीडितुं न कश्चन प्रभवति स्म, यतस्तस्य पणा उदग्रा साहसयुताश्चाऽऽसन् । स स्वमनस्तापं शमयितुमिव क्रीडति स्म । धनस्याऽतिव्ययेन छूते च निरर्गलं देवनेन तस्योत्कटं सौख्यं भवति स्म, यतो धनिकानामाराध्यदैवतरूपं धनं धनिकांश्च व्यक्ततयोपहासपूर्वकं चाऽवहेलियतुं तस्य पार्वे नाऽन्यः कश्चन उपाय आसीत् । अतः स उदग्रतया पणान् कुर्वन् स्वमन्यांश्चोपहसन् क्रीडंश्च सहस्रशो धनं जयति स्म हारयति स्म चाऽपि, धनमलङ्कारान् गृहाणि - सर्वमपि पणीकुर्वन् वारं वारं जयति स्म हारयति स्म वा । एतस्य मुख्यं कारणं त्वेकमेवाऽऽसीत् - एवंरीत्याऽनिश्चितक्रीडनेन यत् प्रबलं क्रूरं च चित्तौत्सुक्यं जायते स्म तत् तस्य सुखप्रदं भाति स्म । एतच्चित्तौत्सुक्यपूर्ण संवेदनं तस्मै अतितरां रोचते स्म, तच्च संवेदनं नवनवतयाऽनुभवितुं, वर्धयितुं, समुद्दीपयितुं स सातत्येन प्रयतते स्म । यतः स्वीयेऽतितृप्ते, मर्यादिते. नीरसे च जीवितेऽनेन संवेदनेनैव केवलं स यत्किञ्चित् सुखं, यत्किञ्चिदुत्तेजनं, यत्किञ्चिच्च तीव्रतरं जीवनानन्दमनुभवितुं शक्त आसीत् ।
यदा यदा च सोऽतिप्रमाणं धनं हारयति स्म तदा तदा स नूतनं धनमर्जयितुं, सोत्कण्ठं वाणिज्ये प्रवर्तितुं, स्वीयानधमांश्च धनप्रत्यर्पणार्थं कठोरतया प्रेरयितुमारभते स्म, यतो यया कयाऽपि रीत्या धनमुपाय॑ स पुनरपि द्यूतं क्रीडितुमिच्छति स्म, पुनरपि महापणान् कर्तुमिच्छति स्म, पुनरपि चाऽधिकतया धनस्य तिरस्कारं प्रदर्शयितुमिच्छति स्म ।