________________
क्रमशः सिद्धार्थो द्यूते धनहानेरधीरो जायते स्म, अधमर्णैर्ऋणेऽप्रत्यर्पिते विलम्बेन वा प्रत्यर्पितेऽमर्षणो भवति स्म, भिक्षुकान् प्रति सोऽधुना दयावान् नाऽऽसीत्, दीनानसहायांश्च दानं दातुं सहायं च कर्तुं सोऽधुना नेच्छति स्म । एकैकस्मिन् पणे यो लक्षमितं धनमपि पणीकरोति स्म स वाणिज्ये लघुन्यपि व्यवसाये कठोरः स्वार्थी च भवति स्म कदाचिच्च स्वप्नेऽपि धनमेव पश्यति स्म ।।
___ यदा हि कदाचित् सोऽस्मात् शापरूपात् संमोहनात् जागरितो भवति स्म, दर्पणे च प्रतिबिम्बितं स्वीयं जर्जरं विरूपं च जायमानं मुखं पश्यति स्म, यदाऽपि च लज्जा जुगुप्सा च तन्मनो व्याप्नोति स्म, तदा स पुनरपि द्यूतगृहं प्रति धावति स्म, लक्षान् पणीकरोति स्म, विलासितायां मत्तः सन् सुरापानं करोति स्म । ततश्च पुनरपि धनार्जनार्थं तत्सङ्ग्रहणार्थं चोत्कटतया प्रवर्तते स्म । अस्मिन् अर्थहीने विषचक्रे भ्रामं भ्रामं जर्जरीभूतः सोऽकालेऽपि जीर्णो रुग्णश्च जात आसीत् ।
अथैकदा स्वप्नैकेन स प्रबोधितः । तद्दिने सायं स कमलया सह तस्याः क्रीडोद्याने तरोरध उपविश्य वार्तालापं कुर्वन्नासीत् । कमला गभीरतया वदति स्म तदा । तस्याः शब्देषु व्यथा खेदश्चाऽनुभूयेते स्म । तया सिद्धार्थस्य गौतमबुद्धविषयकाः प्रश्नाः पृष्टाः, यथा – तस्य लोचने कियती निर्मले आस्ताम् ? तस्य मुखं कथं शान्तिपूर्ण सुन्दरं चाऽऽसीत् ? स्मितं च कथं प्रसादपूर्णमासीत् ? तस्य च समग्रोऽपि व्यवहारः कथमुपशान्त आसीत् ? – इत्यादि । सिद्धार्थप्रदत्तानुत्तरान् श्रावं श्रावमपि सा तृप्तिं नैव प्राप्ता । सिद्धार्थेन चिराय महात्मनो बुद्धस्य वर्णनं कर्तव्यमभवत् । ततो दीर्घं निःश्वस्य कमलयोक्तं - 'ममेदं प्रतिभाति यदेकदा, शीघ्रमेव, अहं बुद्धभगवतोऽनुयायिनी भिक्षुणी