________________
भविष्यामि । इदं क्रीडोद्यानमपि तस्यैव समर्प्य तत्सङ्घस्य शरणं च गृहीत्वा तदुपदेशानुसारं जीविष्यामि' ।
ततः सा सिद्धार्थं तीक्ष्णकटाक्षेन प्रलोभयित्वाऽत्यन्तासक्ततयोत्कटतयोग्रतया च तं समालिङ्ग्य रन्तुमारब्धा । साऽद्याऽस्य क्षणिकसुखस्याऽन्तिमं मधुबिन्दुं समास्वादितुमिच्छति स्मेव । इतः पूर्वं, कामासक्तेर्मृत्योश्चैतावान् गाढः सम्बन्धोऽस्तीति सिद्धार्थेनैवंस्पष्टतया न कदाऽप्यनुभूतमासीत् । ततः स तस्याः पार्वे शयितवान्, तस्याश्च मुखं तन्मुखासन्नमेवाऽऽसीत् । तस्या नेत्रयोरधः, ओष्ठप्रान्तयोश्च तेनैदम्प्राथम्येन व्यक्ततया वल्यश्चर्म सङ्कोचाश्च परिलक्षिताः, यैहि जरा-वार्धक्ययोः स्पष्टः सङ्केतो दीयते स्म । सिद्धार्थः स्वयमपि, योऽद्याऽपि चत्वारिंशद्वर्षदेशीय आसीत्, स्वकेशेषु पलितान् लक्षितवानासीत्, तेन कमलायाः सुन्दरे मुखेऽप्यद्याऽवसादो दृष्टः । यस्मिन् पथि सुखदमवसानं नाऽऽसीत्, तत्र च प्रवासेनाऽऽयातं केवलं श्रान्तत्वं, जरसो विषादस्य चैव सङ्केताः, प्रच्छन्नमनिदिष्टं प्रायश्चाऽव्यक्तं भयं - जीवनसन्ध्याया भयं, वार्धक्यस्य भयं, मृत्योश्च भयमवसादश्च सिद्धार्थेन कमलाया वदने दृष्टः । दीर्घं निःश्वस्य सिद्धार्थस्तामापृच्छ्य ततो निर्गतः । तस्य हृदयं विषादेन निगूढभयेन च पूरितमासीत् ।
स्वगृहं गत्वा सिद्धार्थेन सा रात्रिः सुरापानेन सह नर्तकीनां सान्निध्ये यापिता । स्ववयस्येभ्यः स्वयं श्रेष्ठो नाऽऽसीत् तथाऽपि तेन श्रेष्ठताया अभिनयः कृतः । प्रचुरं मद्यं पीत्वा मध्यरात्रेऽतीव श्रान्तोऽपि सन् चित्तेऽविरतं प्रवर्तमानेन द्वन्द्वेनाऽत्यन्तमुद्विग्नः, ततश्चाऽश्रुपूर्णलोचनो विषण्णहृदयश्च स शयितुं गतः । हृदयं तस्य दुःखेन तथा सन्तप्तमासीत् यथा तेनाऽनुभूतं यत् स इतोऽपि तत् सोढुं शक्तो न स्यात् । अस्वादुमद्यपानं, अगभीरस्याऽपि
८७