________________
अतिमधुरस्य सङ्गीतस्य श्रवणं, नर्तकीनां सौगन्ध्यातिरेकयुतकेशादीनामाघ्राणं च यथा हठान्मनो व्याप्नोति तथा ततोऽपि वाऽधिकया जुगुप्सया तन्मनो व्याप्तमासीत् । एतेषां सर्वेषामुपरिष्टाच्च स स्वात्मनैवाऽधिकं जुगुप्सित आसीत्, तस्य सुगन्धाः केशाः, सुरापानेन दुर्गन्धपूर्णं मुखं, शैथिल्यं प्राप्ता च त्वक् - एतत् सर्वमपि तस्य जुगुप्सां वर्धयति स्म । यथा कश्चन भोजनपानातिरेकाद् व्याकुलः सन् वमनेनैव शान्ति सौख्यं चाऽनुभवति तथा सोऽपि सर्वाण्यपीमानि भौतिकसुखानि, व्यसनानि, सर्वथा निश्चेतनं चेदं जीवनमेकेनैव प्रचण्डेनोत्सारणेन वान्त्वा सुखी स्वस्थश्च भवितुमिच्छति स्म सर्वात्मना । एवमेव व्याकुलतयाऽनिद्रित एव रात्रिं यापयित्वा प्रत्यूषे किञ्चन सुप्तवान् । तस्यां क्षणिकतन्द्रायां स स्वप्नमेकं दृष्टवान् ।।
___ कमला स्वगृहे सुवर्णमये पञ्जरे मधुरगानमेकं पक्षिणं पालितवत्यासीत् । सिद्धार्थः स्वीये स्वप्ने तमेव पक्षिणं दृष्टवान् । तेन दृष्टं यत् प्रत्यहं प्रातःकाले गायन्नयं पक्षी अद्य सहसा अवाक् जातोऽस्ति । एतेन विस्मितः स सुवर्णमयं पञ्जरमुद्घाट्य यावत् पश्यति स्म तावत् स पक्षी मृतो दृष्टः । स तं पक्षिदेहं स्वहस्तेन गृहीत्वा क्षणं च निरीक्ष्य दूरं प्रक्षिप्तवान्, तत्क्षणमेव च यथा तेन किञ्चन श्रेष्ठं बहुमूल्यं च वस्तु अपि पक्षिणा सह प्रक्षिप्तमिव मन्वानः स भयकम्पितो जातः स्वीयहृदये चाऽकथ्यं दुःखमनुभूतवान् ।
एनं स्वप्नं दृष्ट्वा सहसा जागरितः स महति विषादे निमग्न आसीत् । स्वीयं सर्वमपि जीवनं तेनाऽसारतया निरर्थकं च व्ययितं, जीवनात् स न किञ्चिदपि फलं सारं मूल्यं वा निर्वृहितवान् - इति सोऽनुभवन्नासीत् । तस्य प्रतिभातं यत् पोतभङ्गेन सर्वमपि विनाश्य सर्वथैकाकी तटे पतितो जन इव
८८