________________
सोऽप्येकाकी जातोऽस्ति ।
एवं विषण्णः सिद्धार्थः स्वीयं क्रीडोद्यानं प्राप्तः, द्वारं पिधाय च सहकारवृक्षस्याऽधस्तादुपविष्टः । तस्य हृदयं मृत्युभयेन ग्रस्तमासीत् । कञ्चित् कालमेवमेव यापयित्वा स विचारयितुमारब्धः । यदारभ्य तस्य स्मर्यते स्म तत् सर्वं स विचारयात्रया निरीक्षितवान् । “कदा किल स याथार्थ्येन सुख्यासीत् ? कदा किल वस्तुतस्तेनाऽऽनन्दोऽनुभूत आसीत् ? आम्, स्मृतम् ! नैकवारं स सुखमानन्दं चाऽनुभूतवानासीत् । यदा स तारुण्ये वर्तमानो विविधान् विषयानधीत्य ब्राह्मणानां प्रशंसां प्राप्तवान्, स्वीयान् समयवयस्कान् दूरमतिक्रान्तवान्, सामगाने सर्वेभ्योऽपि प्रकर्षं प्राप्तवान्, पण्डितैः सह वादं कृतवान्, यागादिषु च स्वपित्रादीनां साहाय्यं कृतवान् तदा तस्य मनः सुखेनाऽऽनन्देन च व्याप्तमासीत्" ।
"तदात्वे तेन स्वहृदयगह्वरेऽनुभूतमासीद् यत् - त्वत्कृते एष एव पन्था अनुसरणीयतया विद्यते । अस्मिन्नेव पथि देवास्त्वां प्रतीक्षन्ते - इति"।
___ "ततो यौवनेऽपि यदाऽनवरतमूर्ध्वगमनाय प्रेरयताऽनेनैव हृदयाशयेन स सब्रह्मचारिणां यूथाद् बहिनिर्गतः, यदा ब्राह्मणानामुपदेशान् बोद्धं स दृढतया प्रयतितवान्, यदा च प्रत्येकं नूतनो बोधो नूतनतमबोधप्राप्तेरेवाऽभीप्सां तस्मिन् जनयति स्म तदा पुनरपि, प्रयत्नानामेषां मध्येऽभीप्सानां चाऽऽसां मध्येऽपि तस्याऽन्तःकरणं वदति स्म – 'अग्रेसरो भव, अग्रेसरो भव, अयमेव तेऽध्वा' - इति । यदाऽपि स गृहं त्यक्त्वा श्रमणीभवितुं निर्गतस्तदाऽप्ययमेव ध्वनिस्तस्य हृदयाकाशे गुञ्जति स्म । ततः पुनरपि यदा स श्रामण्यमुत्सृज्य पूर्णपुरुषस्य बुद्धस्य पार्वे गतस्तदाऽपि स एव ध्वनिस्तं जागरयति स्म । प्रान्ते च तमपि
८९