________________
विहाय यदा सोऽज्ञातं प्रदेशं प्रति प्रस्थितवान् तदाऽप्ययमेव ध्वनिस्तस्य चित्ते प्रतिध्वन्यते स्म ।
“किन्तु, अद्य कियान् कालो व्यतीतस्तं ध्वनिं श्रुत्वा ? कियतो दीर्घकालात् तेन नवं किमपि लक्ष्यं न प्राप्तमासीत् ? आ बहोः कालात् तस्य जीवनपथः कथं नीरस उत्सन्नश्च सञ्जात आसीत् !! कियन्तो वत्सरास्तेनोन्नतध्येयविहीनतया, उत्कटाभीप्साशून्यतया, उत्कर्षलेशमप्यप्राप्य व्ययिता आसन् ? केवलं कानिचन लघुलघूनि कुसुखानि प्राप्य हृष्टेनाऽपि सर्वथाऽतृप्त्या !! किमप्यबुध्वैव तेन प्राकृतजनवत् कार्याणि कृतानि, बालवदभिलाषशतानि चिन्तितानि पूरितानि चेयन्ति वर्षाणि ! तथाऽपि प्राकृतजनेभ्यो बालेभ्यश्चाऽपि सकाशात् तस्य जीवनं निकृष्टं तुच्छं च सञ्जातमासीत्, यतस्तेषां प्राप्तव्यानि तस्य लक्ष्येभ्यः सकाशात् भिन्नान्यासन्, एवं तेषां दुःखानि चाऽपि तस्य नाऽऽसन् ! "
कामस्वामिसदृशजनानां सम्पूर्णमपि जगत् तस्य कृते क्रीडामात्रं, नाट्यमात्रं, प्रहसनमात्रमासीत् । केवलं कमलैव तस्य प्रियतमाऽऽसीत्, तस्याः कृते एव तन्मनसि समादर आसीत्, किन्तु किं साऽपि शाश्वताऽऽसीत् ? किमद्याऽपि सा तस्याऽपेक्षिताऽऽसीत् ? स वाऽपि च तस्याः कृतेऽपेक्षणीय आसीद् वा ? किं तयोः निरर्थिकायाः क्रीडायाः कदाचिदप्यन्त आसीद् वा ? किं तस्याः क्रीडायाः कृते एव जीवनीयमासीत् खलु ? नैव !! यत एषैव क्रीडा संसारपदवाच्याऽऽसीत्, बालानां क्रीडैषा, या हि सुखदाऽऽसीत् यदि परं द्वित्रवारं दशवारं वा क्रीडिता, किन्तु निरन्तरं तस्याः क्रीडनं किमुचितमासीत् खलु ?
सिद्धार्थेनाऽवबुद्धं यदधुना क्रीडैषा समाप्तिं गताऽस्ति । अधिकक्रीडनमशक्यमेवाऽतः परम् । तस्य शरीरे आपादमस्तकं कम्पनं जातम् । किञ्चिन्मृतं तस्याऽन्तःकरणे इवाऽपि तेनाऽनुभूतम् ।
९०