________________
तस्मिन्नहनि आदिनं सहकारवृक्षस्याऽधस्तादेवोपविश्य स स्वपितरं, गोविन्दं, गौतमबुद्धं च विषयीकृत्य चिन्तनं कृतवान् । 'किं तेन कामस्वामीभवितुमेते सर्वेऽपि त्यक्ता आसन् वा ?' स तत्रैवोपविष्ट आसीद् यावदन्धकारः प्रसृतः । यदा स उपरि दृष्टवान् तदा तेन नीले नभोविताने प्रकाशमाना नक्षत्र-तारका विलोकिताः । तेन स्मृतं – 'अहो ! अहमत्र मम क्रीडोद्याने मदीयसहकारवृक्षस्याऽध उपविष्टोऽस्मि' । तस्य वदने स्मितमुल्लसितम् । 'किं तदावश्यकमासीत् ? किं तदुचितमासीत् ? अथवा किं तन्मौर्यपूर्णं नाऽऽसीद् यत् कस्यचित् क्रीडोद्यानस्य तथा तदन्तःस्थितस्याऽऽम्रवृक्षस्य स्वाम्यं स धारयति स्मेति ?'
अनेन विचारेण स तत्र पूर्णविरामं स्थापितवान् । तेनाऽनुभूतं यदेतदपि मृतं तस्याऽन्तः । स उत्थितवान् । सहकारतरुं क्रीडोद्यानं च 'स्वस्ति ते भूया'दिति सम्भाव्य ततो निर्गतवान् । तस्मिन् दिने स किमपि न खादितवानासीत् अतः स क्षुधातुरो जातः सन् स्मृतवान् यत् तन्नगरे तस्य गृहमप्यस्ति यत्र सर्वमप्याहारजातं विद्यतेऽन्यदपि वस्तुजातमस्तीति । पुनरपि स म्लानं स्मितवान्, मस्तकं च विधूय मनसैव तत् सर्वमपि गृहादि-वस्तुजातं सम्भावितवान् ।
अथ च तस्यामेव रात्रौ सिद्धार्थः सर्वमपि त्यक्त्वा नगरान्निर्गतः सन् पुनर्न कदाऽपि प्रत्यागतः । कामस्वामी चिराय तमन्विष्टवान्, कदाचित् स लुण्टाकैरपहृतः स्यादिति मत्वा; किन्तु कमलया तमन्वेष्टुं न कोऽपि प्रयत्नः कृतः । किं बहुना ? सिद्धार्थः कुत्रचिद् गतवान् - इति तया यदा ज्ञातं तदा तयाऽऽश्चर्यमपि नाऽनुभूतम् । तया आसिद्धार्थमेलनकालात् तदपेक्षितमेवाऽऽसीत् । यतः सा जानाति स्मैव यत् तस्य मूलं तु श्रामण्य एव प्रतिष्ठितमासीत्, गृहत्यागः, यात्रा, भ्रमणमित्यादिकं