________________
तस्य सहजमेवाऽऽसीत् । एतच्च तथ्यं तया सिद्धार्थस्याऽन्तिमे समागमे सर्वतोऽप्यधिकतयाऽनुभूतमासीत् । सिद्धार्थस्य गमनात् सञ्जाते दुःखेऽपि तया तस्याऽन्तिमस्य मिलनस्य, गाढमालिङ्गनस्य, रतिक्रीडायां च तेन स्वोपरि प्राप्तस्य प्रभुत्वस्याऽऽनन्दोऽद्याऽपि अनुभूयते स्म ।
किञ्च, यदा तयैदम्प्राथम्येन सिद्धार्थगमनवार्ता श्रुता तदा सा यत्र गवाक्षे सुवर्णपञ्जरस्थो गायकः पक्षी समासीत् तत्र गत्वा सुवर्णपञ्जरमुद्घाटितवती पक्षिणं च बहिनिष्कास्य मुक्ताकाशे उड्डायितवती । ततश्चिराय सा तं पक्षिणमदृश्यीभवन्तं निरीक्षितवती।
अथ च तस्मादिनात् साऽऽगन्तुकानां कृते स्वगृहद्वाराणि पिहितवती । कैश्चिद् दिवसैः साऽवगतवती यत् सिद्धार्थस्याऽन्तिमसमागमेन साऽपत्यं प्रसविष्यतीति ।