________________
तं जेतुमिष्टवान्, किन्तु नाऽहं तं जेतुं क्षमो जातः, अहं केवलं तस्य वञ्चको जातः, केवलं पलायितः केवलं च ततोऽन्तर्हितो जातः । सत्यं, नाऽस्त्यस्मिन् जगति ततोऽन्यद् येन मम चित्ततन्त्रमाक्रान्तं स्यात् । आमियमेव प्रहेलिका, यदहं जीवामि, अहं एकलः, सर्वेभ्यश्चाऽन्येभ्योऽहं भिन्नो विच्छिन्नश्च, अहं सिद्धार्थः । तथाऽस्मिन् जगति अहं स्वं - सिद्धार्थं मुक्त्वा नाऽन्यवस्तुविषये इयदल्पतरं जानामि' ।
चिन्तयन् गच्छंश्च स सहसैवाऽनेन विचारेण गृहीत इव तत्रैव स्तम्भितो जातः, एतस्माच्च विचारादन्योऽपि विचारस्तत्क्षणमेव समुद्भूतः, यथा – 'कथमहं स्वविषये इयदल्पं जानामि - कथं च सिद्धार्थो ममेयानपरिचितोऽज्ञातश्च - इत्यस्य कारणमेकमेव, केवलमेकं - तदस्ति - अहं स्वस्मादेव भीत आसम्, स्वस्मादेव पलायनं कुर्वन्नासम् । अहं ब्रह्माऽन्विषन्नासम्, आत्मानं गवेषयन्नासम् - अज्ञातमन्तस्तमं, सर्वेषां वस्तूनां मूलतत्त्वमात्मतत्त्वं, जीवनतत्त्वं, दिव्यतत्त्वं, नित्यतत्त्वं प्राप्तम् । किन्तु, हन्त एतत् कुर्वन्नहं स्वमेव भ्रंशितवान् - अहं स्वमेव नाशयितुमिष्टवान् ।'
सिद्धार्थो दृष्टिमुन्नीय परितो विलोकितवान् । तन्मुखे स्मितं विलसितमीषत्, तत्क्षणमेव तस्य समग्रेऽप्यस्तित्वे दीर्घस्वप्नाज्जागरणस्य दृढाऽनुभूतिः प्रसृता । तत्कालमेव स ततोऽग्रेऽसरत्, त्वरितं, यथा कश्चित् स्वकर्तव्यं जानानः शीघ्रतया गच्छेत् तथा ।
चिन्तनं तु प्रवर्तमानमेवाऽऽसीत् – 'आम्', दीर्घ श्वसन् स चिन्तितवान् – 'इतः परं, सिद्धार्थात् पलायितुं नाऽहं प्रयतिष्ये । आत्मविषयान् संसारदुःखविषयांश्च विचारान् नैव करिष्ये । खण्डगृहाणां रहस्यानि ज्ञातुं नाऽहं स्वं छिन्नभिन्नं नष्टं वा कर्तुं
४२