________________
यतिष्ये । योगाध्ययनं वेदाध्ययनं श्रामण्याभ्यासमन्यं वा कञ्चिदभ्यासं नैव करिष्ये । अहं हि स्वस्मादेव शिक्षणं ग्रहीष्ये, स्वस्यैव शिष्यो भविष्यामि, सिद्धार्थस्य च रहस्यं ह्यहं स्वस्मादेवाऽवगमिष्यामि' ।
समग्रमपि विश्वं ह्येदम्प्राथम्येन पश्यन्निव स परितो व्यलोकयत् । तत् सुन्दरमपूर्वं रहस्यमयं चाऽभासत । विश्वं ह्यत्र नीलमासीत् पीतमासीत् हरितं चाऽपि विलसदासीत्, आकाशं नदी वृक्षाः पर्वताः - सर्वमपि सुन्दरतमं रहस्यमयं मनोमोहकं, तन्मध्ये च सः - सिद्धार्थः - जागृतः - स्वात्मनो मार्गे गन्तुं सज्जः स्थित आसीत् । सर्वमप्येतत् - सर्वं पीतं सर्वं नीलं, नदी वृक्षाः आकाशं - सर्वमपि - ऐदम्प्राथम्येन तस्य नयनयोः पुरतः समागतम् । नाऽऽसीदिदं मारस्येन्द्रजालं, न चाऽपीदं मायाया आवरणमासीत्, नाऽऽसन्नतेऽर्थहीना दैवकृताश्च जगतो नैकविधा आभासा ये हि वैविध्यविरोधिभिरद्वैतशोधकैश्च गभीरचिन्तनशीलैर्ब्राह्मणैस्तिरस्कृता आसन् । नदी नद्येवाऽऽसीत् । तथा यदि सिद्धार्थात्मनि निगूढतया विद्यमानमैक्यं दिव्यत्वं च यदि नीले नभसि नद्यां च विद्यमानमासीत् तर्हि तत् केवलं दिव्या कला दिव्यश्च सङ्कल्प एवाऽऽसीद् यत् पीतेन नीलेन च भवितव्यमेव, तत्राऽऽकाशेन वृक्षैश्चाऽत्र च सिद्धार्थेन । अर्थो वास्तविकता च न कुत्रचिद् वस्तूनां पृष्ठतो निलीने किन्तु ते वस्तुष्वेव सङ्कलिते स्तः सर्वेष्वेव वस्तुषु । ___'अहं कीदृशो मूल् जडश्चाऽऽसम्' । शीघ्रं चलन् स व्यचारयत् । 'यदा कश्चिज्जनः किञ्चित् पिपठिषुस्तदधीते, तदा स तदक्षराणि विरामचिह्नानि वा नैवाऽवगणयति नाऽपि तानि भ्रमजालमाकस्मिकं व्यर्थं चेत्येवमुपेक्षते; किन्तु स तानि अक्षराणि पठति, सम्यगभ्यस्यति, प्रेम्णा चाऽऽत्मसात् करोति । किन्तु
४३