________________
जगतः पुस्तकं पिपठिषुरपि, स्वीयप्रकृतेरभ्यासं चिकीर्षुरप्यहं तदक्षराणि विरामचिह्नानि चोपेक्षितवान् अविचारितया । साकारं जगदहं भ्रमणारूपेण निन्दितवान् । नेत्र-जिह्वादीन्यक्षाण्यहमाकस्मिकानि मन्वानोऽवधीरितवान् । परन्त्विदानीं तत्सर्वमवसितमस्ति । अहमुज्जागरितोऽस्म्यद्य, नूनमहमुज्जागरितोऽस्मि, अद्यैव च मया पुनर्जन्म प्राप्तमिव' ।।
यदा चैते विचारास्तस्य चित्ते स्फुरिताः, स सहसा तत्रैव, सर्प दृष्ट्वेव, स्थिरो जातः । अथ च तदैव सहसा तन्मनस्येतदपि स्पष्टं जातं यत् - येनोज्जागरणं नवजन्म वा प्राप्तमासीत्, तेन स्वजीवनमपि पूर्णतया पुनर्नवत्वेनैवाऽऽरब्धव्यमस्तीति ।
___ यद्यपि, यदा स पूर्णपुरुषस्य भगवतो बुद्धस्य निवासस्थानाद्-जेतवनान्निर्गत आसीत् तदा तस्य ध्येयं गृहगमनमासीत्, तथा वर्षाणां संन्यासानन्तरं पितृपाइँ गमनस्येच्छा तस्य सहजतयैवोचिता प्रतिभाताऽऽसीत् । तथाऽपि, यदा स तस्मिन् क्षणे सर्प दृष्टवानिव स्थिरोऽभवत् तदाऽन्योऽपि विचारस्तस्य चेतसि प्रादुर्भूतः – 'नाऽहं सोऽधुना योऽहमासम्, नाऽहमिदानीं संन्यासी, न च पुरोधाः नाऽपि च ब्राह्मणः । एवं सति पितृपार्वे गत्वा किं वाऽहं करिष्ये ? किं वेदाध्ययनं ? किं वा यज्ञविधानम् ? अथवा किं ध्यानाभ्यासं ? नैव नैव ! एतत् सर्वमपि मत्कृतेऽवसितमेवाऽधुना किल !'।
एवं चिन्तनपरः सिद्धार्थः स्थिरतया स्थितस्तावता हिमशीतलतेव तं सर्वत आक्रान्तवती । कस्यचिल्लघुप्राणिन इव, असहायपक्षिण इव, भयभीतशशकस्येव स कम्पितुमारब्धो यदा तेनाऽवबुद्धं स्वीयमेकलत्वम् । बहुवर्षेभ्यः पूर्वमेव स गृहादिकं त्यक्तवानासीत् तथाऽपि तच्चित्ते ईदृशं भयं नैवाऽनुभूतमासीत् तेन ।
४४