________________
पूर्वं हि, त्यक्तसर्वसङ्गोऽपि स्वहृदयस्याऽज्ञातगभीरतायां सोऽद्याऽपि स्वपितुः पुत्र आसीत्, प्रतिष्ठितो ब्राह्मण आसीत्, धार्मिको जन आसीत् । किन्त्वधुना, स केवलं सिद्धार्थ आसीत् प्रबुद्धः सिद्धार्थः, अन्यथा नाऽन्यत् किमपि । दीर्घं श्वसित्वा विचारयन् स पुनरपि प्रकम्पितोऽभवत् - तत्सदृश एकलो जनो नाऽऽसीत् कोऽपि । स नाऽऽसीत् इदानीमुच्चकुलसम्बन्धी कश्चन कुलीनो जनः, नाऽऽसीच्च स तत्तद्भाषया व्यवहरन् तदनुरूपं च जीवन् कश्चन शिल्पी व्यावसायिको वा तत्तत्समाजसभ्यः, नाऽपि स ब्राह्मणजीवनं यापयन् ब्राह्मण आसीत्, न चाऽपि स परिव्राजकानामन्यतमस्तपस्वी संन्यासी वाऽऽसीत् ।
सर्वथा विविक्तसेवी घनारण्यवासी च तापसोऽपि नाऽऽसीदेकल एकाकी वा यतस्तस्याऽपि समाज आसीत् । यो भिक्षुकोऽभवत् स गोविन्दोऽपि स्वजातीयैः सहस्रशो भिक्षुकैः सह तेषामेव भाषया व्यवहरन् तत्तुल्यवस्त्रं धारयन् तत्सदृशीं च श्रद्धां वहन् जीवति स्म । किन्तु सिद्धार्थ : ? स कस्य समाजस्य प्रतिनिधिरासीत् ? केषां सदृशं जीवनं स जीवेत् ? केषां च भाषां स भाषेत ?
तस्मिन् क्षणे, यदा तस्य सम्पूर्णमपि जगद् विलीनमिव प्रत्यभात्, यदा स गगनस्थितः कश्चनैकल उडुरिव तिष्ठति स्म, यदा च नैराश्यस्य हिमशैत्येन स कम्पमान आसीत् तदाऽपि स दृढतयाऽपूर्वतया स्वस्थ आसीत् । अयमासीत् जागरणात् पूर्वं तस्याऽन्तिमः कम्पः, जन्मत: पूर्वाऽन्तिमा वेदना च । क्षणार्धेनैव स्वस्थीभूय सदार्द्धं शीघ्रं सोत्कण्ठं च प्रस्थितः सः, न गृहं प्रति, नाऽपि पितरं प्रति, नाऽपि च पृष्ठं विलोकयन्, किन्तु नूनामेव काञ्चिद् दिशं प्रति ।
४५