________________
४. जागरणम् यस्मिन्नुपवने पूर्णपुरुषो बुद्धोऽवस्थित आसीद् यत्र च स्वमित्रं गोविन्दोऽवस्थितस्तदुपवनान्निर्गतः सिद्धार्थोऽनुभूतवान् यत् 'तस्य पूर्वतनं जीवनं स तत्रैव त्यक्त्वा निर्गतोऽस्ती'ति । शनैः शनैः स्वमार्गे गच्छतस्तस्य मस्तिष्कमेतेनैव विचारेण पूरितं जातम् । यावदेषाऽनुभूतिस्तं पूर्णतयाऽऽक्रान्तवती तावत् स गभीरतया चिन्तितवान् । चिन्तयन्नेव स तं बिन्दुं प्राप्तो यत्र स हेतूनवगतवान् । तस्य प्रतिभातं यद् हेतूनवगन्तुं विचारा आवश्यकाः, विचारद्वारैव चाऽनुभूतयो ज्ञानतया परिणमन्ति नष्टाश्च नैव भवन्ति, किन्तु सत्याः परिपक्वाश्च भवन्ति ।
स्वमार्गेऽग्रेसरतः सिद्धार्थस्य मनसि गभीरं चिन्तनं प्रवर्तते स्म । सोऽनुभूतवान् यदिदानीं स नाऽस्ति तरुणो युवा वा, अपि तु स पुरुषः सञ्जातोऽस्ति । सोऽनुभूतवान् इदमपि यत् - किञ्चिद् वस्तु तस्याऽस्तित्वान्निर्मुक्तमस्ति यथा हि सर्पशरीरात् कञ्चकः । तत् किञ्चित् तस्याऽस्तित्वे नाऽऽसीदिदानीं यद्ध्यातारुण्यात् तदनुषक्तमासीत् - ननु यदस्तित्वस्य भागरूपमेवाऽऽसीत् । तद्ध्यासीद् गुरुप्राप्तेस्ततश्च ज्ञानप्राप्तेः स्पृहा । स्वजीवनस्याऽन्तिमं गुरुं - महान्तं महाज्ञानिनं पवित्रतममपि च गुरुं - बुद्धं सोऽधुनैव त्यक्तवान् आसीत् । स तेन त्यक्तव्य एवाऽभवत्, तदुपदेशं स्वीकर्तुं स सोत्कण्ठो नाऽऽसीत् ।
___ शनैः शनैः स्वमार्गे गच्छन् स स्वमेव पृष्टवान् – 'तत् किमस्ति यत् त्वमुपदेशाद् गुरुभ्यश्च बोद्भुमिष्टवान् ? तथा, यद्यपि ते त्वां बह्वन्यच्छिक्षितवन्तस्तथाऽपि तत् किमासीत् यत् ते त्वां बोधयितुमक्षमा जाताः ?' चिन्तयता तेन ज्ञातम् - 'आम् - तद्ध्यासीत् मम आत्मा । अहं हि तस्यैव स्वभावं प्रकृतिं च ज्ञातुमुत्सुक आसीत् । अहं हि स्वात्मानं मोचयितुं -