________________
निर्वाणस्य सिद्धान्तः ।
भवत्प्रतिपादितः संसारत उत्थानस्य अनेनैव सूक्ष्मरन्ध्रेण खलु शाश्वतस्यैकस्य च विश्वस्य नियम: खण्डितो भवति । आक्षेपकरणार्थं कृपया क्षम्यताम्" ।
गौतमः शान्त्या स्थिरतया च तच्छ्रुतवानासीत् । तत: स पूर्णपुरुषः सौम्य-मृदु-स्पष्टस्वरेण कथितवान् – “भवता ह्युपदेशः सम्यक्तया श्रुतोऽस्ति भो ब्राह्मणपुत्र !, तथा श्रवणानन्तरं तदुपरि गभीरं चिन्तनं यद् भवता कृतं तदपि प्रशस्यम् । भवता या क्षतिस्तत्राऽन्विष्टा सा इतोऽपि विचारार्हा । भवान् हि ज्ञानपिपासुरस्ति तथाऽपि तर्कजालं शब्दजालं च प्रति जागरूको भवतु । तर्काः खलु निरर्थकाः, ते सुन्दरा असुन्दरा वा भवेयुः, चातुर्यपूर्णा मूर्खतापूर्णा वा भवेयुः, यः कोऽपि तान् स्वीकर्तुं निराकर्तुं वाऽर्हति'" ।
" यद्यपि, उपदेशं श्रुत्वा भवता यच्चिन्तितं तत्र मेऽभिप्रायो नाऽस्ति, नाऽपि च तदुपदेशस्य लक्ष्यं ज्ञानपिपासूनां विश्वस्वरूपज्ञापनम् । तस्य लक्ष्यमस्ति किञ्चिद् भिन्नमेव, तद्धि दुःखमुक्तिः । इदमेव हि गौतम उपदिशति नाऽन्यत्" ।
"कृपया भगवन् ! मयि कुपितो मा भवतु " - सिद्धार्थ उक्तवान् । “अहं हि भवता सह शब्दानधिकृत्य विवदितुं न कथयामीदम् । तथा भवान् सत्यमेव वदति यत् तर्का: खलु निरर्थकाः । किन्तु अहमन्यदपि किञ्चित् कथयानि वा ? प्रभो ! अहं भवद्विषये क्षणमात्रमपि न शङ्के । भवतो बुद्धत्वविषयेऽपि न मे मनसि शङ्कालेशोऽपि, तथा भवता तदुच्चं ध्येयं प्राप्तमस्ति यद्धि सहस्रशो ब्राह्मणा ब्राह्मणपुत्राश्च प्राप्तुं प्रयतन्ते - एतदपि शङ्कातीतमेव । इदं ध्येयं भवता, स्वयमेव निश्चितेन पथा स्वप्रयत्नैरेव च प्राप्तमस्ति विचारैः, ध्यानेन, ज्ञानेन स्वप्रबोधनेन च । भवता ह्युपदेशश्रवणैर्न किञ्चिदपि शिक्षितमस्ति इति खलु मे
३६
-