________________
"यथा भवत इच्छा" - भगवता पूर्णसौजन्येनोक्तम् ।
"मम कथने कदाचिद् धृष्टताऽपि स्यात्", सिद्धार्थोऽनुवर्तयत्, “किन्तु मम विचारान् यथावद् अनिवेद्य नाऽहं भगवत्सकाशाद् निर्गन्तुमुत्कोऽस्मि । किं भगवत्पादो मम कथनं - किञ्चिद् दीर्घतरं - श्रोष्यति वा ?"
बुद्धेन तूष्णीमेव स्वसम्मतिः सूचिता ।
सिद्धार्थोऽवदत् - "भगवन् ! सर्वप्रथमं त्वहं भवत उपदेशं सर्वथा प्रशंसामि । तत्र सर्वमपि पूर्णतया स्पष्टं प्रमाणितं चाऽस्ति । भवता हि जगदिदं पूर्ण-शाश्वताखण्डशृङ्खलाबद्धं कार्य-कारणभावेनाऽन्वितं च वर्णितम् । तथ्यमिदमियत्स्पष्टतया न कदाऽपि प्रस्तुतं नाऽपि हीयदप्रतिकार्यतया प्रमाणितं वा । यदा कश्चिद् ब्राह्मणो भवबोधदृष्ट्या जगदिदं पश्येत् - सर्वथा संवादि, सर्वथा नियमितं, स्फटिकवन्निर्मलं स्पष्टं च, दैवं दैवतं वाऽनवलम्बमानं - तदा तस्य हृदयं नूनं शीघ्रतया स्पन्दितुमारभेत"।
"जगदिदं शुभं वा भवेदशुभं वा, जीवनं सुखमयं वा भवेद् दुःखपूर्णं वा, शाश्वतं वा भवेन्नश्वरं वा - एतत्सर्वस्य नाऽस्ति किमपि महत्त्वं; किन्तु समग्रविश्वस्यैक्यं, प्रत्येकं घटनानां परस्परं सुसङ्गतता, लघोर्महतो वा सर्वस्याऽपि ह्येकस्मिन्नेव स्रोतसि, एकस्मिन्नेव जन्ममरणयोः कार्य-कारणनियमे समावेशः - भवत उदात्तोपदेशात् स्पष्टतयेदं तत्त्वं प्रकाशते भोः पूर्णपुरुष !। किन्तु, एकत्र भवदुपदेशे हीदमैक्यमयं च समग्रवस्तूनां तार्किकोऽन्वयः खण्डितो भवति । एकस्माद् सूक्ष्मच्छिद्रादैक्यस्य विश्वे किञ्चिदपूर्वं, किञ्चिन्नवं, तादृशं किञ्चित् – यत् पुरा नाऽऽसीत्, यच्च प्रदर्शयितुं प्रमाणयितुं वा न शक्यं - प्रविशति, तद्धि