________________
इदमेव हि भवताऽप्यभिलषितम् । गोविन्द ! अहं तु श्वो गमिष्यामि' ।
ततो द्वावपि सुहृदौ तत्रोपवने चिराय विहृतौ । ततश्च भूमौ शयितौ, परन्तु निद्रा नैवाऽऽगता। गोविन्दः स्वमित्रं वारं वारं सनिर्बन्धं पृष्टवान् यत् – किमर्थं स बुद्धोपदशितं मागं नाऽनुसरति ? किं काचित् क्षतिस्तेन तत्राऽन्विष्टा वा? किन्तु प्रतिवारं सिद्धार्थस्तं निराकृतवान् – “गोविन्द ! शान्तो भवतु, स्वस्थो भवतु । महायशस्विनो भगवत उपदेशः सर्वथा श्रेष्ठोऽस्ति । कथं वाऽहं तत्र क्षतिमन्वेष्टुं प्रभवेयम् ?"
प्रत्यूष एव, बुद्धस्य प्रधानशिष्येष्वन्यतमो भिक्षकस्तत्रोपवने आगत्य गोविन्दमन्यांश्च जनान् - यै रात्रौ बुद्धस्य मार्गो स्वीकृत आसीत् तान् - काषायवस्त्रधारणार्थं दीक्षान्तप्रवचनश्रवणार्थं कर्तव्यसूचनार्थं चाऽऽहूतवान् । तदा गोविन्दः स्वमित्रमालिङ्ग्य ततो निर्गतो भिक्षुकवस्त्राणि च परिहितवान् ।
गहन विचाराधीनः सिद्धार्थश्चाऽऽम्रकुञ्जेषु भ्रमणं कुर्वन् महायशस्विनं गौतमं दृष्टवान् । स सादरं सविनयं च तं वन्दितवान् । तं प्रति बुद्धस्य प्रतिक्रियाऽतीव सद्भावपूर्णा सौम्या चाऽस्तीति विलोक्य तेन यूना धैर्यमवलम्ब्य भगवता सह सम्भाषितुं तदनुमतिर्याचिता । भगवताऽपि मौनमेवेषच्छिरश्चालनपूर्वकं स्वसम्मतिः प्रदर्शिता ।।
सिद्धार्थ उक्तवान् – "भगवन् ! ह्यो भवतोऽद्भुतमुपदेशं श्रोतुं सौभाग्यं मया प्राप्तमासीत् । अहं हि बहुदूरवर्तिप्रदेशात् भवन्तमेव द्रष्टुं श्रोतुं चाऽत्र समित्रः समागतोऽस्मि । इतः परं भवन्मार्गमाश्रितो मे सुहृद् अत्रैव स्थास्यति । अहं तु मम यात्रामनुवर्तयिष्यामि ।
३४