________________
जागृत इव । स गोविन्दस्य मुखं चिरायाऽवलोकितवान् । ततः स मृदुतयोक्तवान्, उपहासलेशोऽपि तत्र नाऽऽसीत् – “गोविन्द ! मम सुहृत् ! भवान् पदं निहितवानस्ति, भवान् स्वमार्ग निर्णीतवानस्ति । भवान् हि सर्वदा मम प्रियमित्रं वर्तते, गोविन्द ! भवान् सर्वदा मामेवाऽनुसरति । बहुधा मया चिन्तितमासीत् यत् - किं गोविन्दो मया विनाऽपि कदाचिदपि - स्वात्मविश्वासेनैव - पदमात्रमपि क्रमिष्यति वा ? किन्तु, अद्य भवता स्वसामर्थ्य दर्शितमस्ति मित्र !, भवता स्वपथश्चितोऽस्ति । आऽन्तं भवान् तमेव मार्गमनुसरेत् निर्वाणं दुःखमुक्तिं च प्राप्नुयात्" ।
गोविन्दो हीतोऽपि तत्कथनमर्म नाऽवबुद्धवान्, अतोऽधीरतया पुनस्तं कथितवान् - "वदतु, मम प्रियमित्र ! वदतु यद् - भवानपि बुद्धं प्रति स्वनिष्ठासमर्पणं विना नाऽन्यत् किमपि कर्तुं शक्तोऽस्तीति"।
सिद्धार्थस्तत्स्कन्धे स्वहस्तं निवेश्य सौम्यतया कथितवान् - "भवता ममाऽऽशीर्वचांसि श्रुतानि भोः !, अहं पुनरपि कथयामि - भवान् आऽन्तमिममेव मार्गमनुसरेत्, भवान् निर्वाणं प्राप्नुयात्" ।
तत्क्षणमेव गोविन्दोऽवगतवान् यत् - तस्य मित्रं तं विहाय गच्छतीति । तस्य नेत्रे अश्रुक्लिन्ने जाते।
"सिद्धार्थ !" - रुदन्नेव स उक्तवान् । सिद्धार्थः सस्नेहं तमुक्तवान् – “मा विस्मरत्वेतद् गोविन्द ! यद् - भवान् बुद्धस्य पवित्रभिक्षुष्वन्यतमः । भवता गृहं पितरौ च त्यक्तानि, भवता स्वजातिः सम्पत्तिश्चाऽपि त्यक्ते, अपि च स्वस्येच्छाऽपि भवता परित्यक्ता, मैत्र्यपि च भवता परित्यक्ता । अद्य श्रुतस्य बोधस्याऽयमेव सारः, भगवतो बुद्धस्याऽपि ह्यत्रैव तात्पर्यम् ।