________________
मेवाऽस्ति । किन्तु दुःखमुक्तेर्मार्गोऽपि सम्प्राप्तोऽस्ति । ये केऽपि बुद्धदर्शितं मार्गमनुसरिष्यन्ति ते सर्वेऽपि निर्वाणं प्राप्स्यन्ति" ।
तस्य वचनपद्धतिर्मुदुलाऽपि दृढाऽऽसीत् । चत्वार्यार्यसत्यानि, अष्टाङ्गं च मार्ग बोधयित्वा सधैर्यं तेन विविधदृष्टान्तैः पुनः पुनः प्रेरणाभिश्च स्वीयोपदेशः सरलतया प्रवर्तितः । दिवि प्रसरत् तेज इव, ननु काचित् तेजसोल्लसिता तारकेव स्पष्टतया स्वस्थतया च तस्य वाणी श्रोतृहृदयेषु प्रासरत् ।
यदा स प्रवचनं समर्थितवान् तदा रात्रिः प्रवर्तमानाऽऽसीत् । बहवो यात्रिकास्तच्चरणयोर्वन्दित्वा स्वं सङ्के स्वीकर्तुं विज्ञप्तवन्तः । बुद्धस्तेषां सङ्घप्रवेशमनुमतवान् कथितवांश्च – “भवद्भिः सम्यक्तयोपदेशः श्रुतोऽस्ति । सङ्घ सम्मील्याऽत्रभवन्तः ससुखं विहरन्तु दुःखानां चाऽन्तं कुर्वन्तु" ।
तावता लज्जालुर्गोविन्दोऽप्यग्रे आगतो निवेदितिवांश्च – "अहमपि महायशस्विनं बुद्धं तत्सर्वं च प्रति मम निष्ठां समर्पयितुमुत्कोऽस्मि' । ततः स सङ्के स्वस्वीकारार्थं विज्ञप्ति कृतवान् स्वीकृतश्च बुद्धेन ।
रात्रिविश्रामार्थं गते बुद्धे, तत्क्षणमेव गोविन्दः सिद्धार्थसमीपं गत्वोत्सुकतया कथितवान् - "सिद्धार्थ ! यद्यप्यह भवन्तमुपालब्धुं नाऽर्होऽस्मि । तथाऽपि कथयामीदं यदावां द्वावपि भगवतोऽस्य वाणीं श्रुतवन्तौ तत्कथितमुपदेशं चाऽपि धारितवन्तौ । गोविन्दो हि तद् बोधं श्रुत्वा तन्मार्ग स्वीकृतवानस्ति, किन्तु सिद्धार्थ ! मित्र ! किं भवानपि निर्वाणपथमेनं समाक्रमितुमुत्साहवान् नाऽस्ति वा? किमिति भवान् अद्याऽपि चिरायते? इतोऽपि किं वा प्रतीक्षते भवान् ?" शब्दानिमान् गोविन्दमुखाच्छ्रुत्वा सिद्धार्थः सहसा निद्रातो