________________
दृश्यते स्म । केवलं तेजः शान्तिश्चैव द्योतेते स्म ।
'अद्याऽऽवां साक्षात् तस्यैव मुखादुपदेशं श्रोष्यामः", सहसा गोविन्दोऽवदत् ।
44
किन्तु सिद्धार्थस्तं नैवोदतरत् । उपदेशश्रवणे तस्यौत्सुक्यं नाऽऽसीदेव । उपदेशात् काचिन्नूतना शिक्षा प्राप्येतेत्यत्राऽपि तस्य श्रद्धा नाऽऽसीत् । यद्यपि तेन गोविन्देन च कर्णोपकर्णं तस्य महाज्ञानिन उपदेशस्यांऽशाः श्रुतचरा एव, तथाऽप्यद्य तु तस्य पूर्णमपि ध्यानं गौतमस्य मस्तके, तदंसयोः, तच्चरणयो:, तस्य स्थिरे लम्बमाने च हस्ते चैवाऽऽसीत् । तस्य प्रत्येकमङ्गुल्याः प्रत्येकं सन्धिभ्यः ज्ञानमेव स्फुरदिव प्रत्यभासत । ते हि सन्धयो ननु सत्यमेवोद्गिरन्तः सत्यस्य निर्मलं प्रकाशमेव चोच्छ्वसतोऽनुभूतास्तेन ।
एषोऽयं बुद्धो ननु प्रत्येकमणुषु पवित्रतम आसीत् । इतः पूर्वं कदाऽपि सिद्धार्थेन न कञ्चित् प्रति ईदृश आदरो बहुमानो वा दर्शितो न वाऽऽकर्षणमनुरागश्चाऽप्यनुभूत आसीत् ।
तौ द्वावपि तूष्णीमेव नगरे बुद्धमनुसृतवन्तौ स्वस्थानं च प्रतिनिवृत्तौ । ताभ्यां तद्दिने उपोषितुं निर्णीतमासीत् । तावता ताभ्यां प्रतिनिवर्तमानो गौतमो विलोकितः, स्वशिष्यवृन्दमध्ये उपविश्य पक्षिणोऽप्यपर्याप्तमत्यल्पम् अन्नं गृहीत्वा स आम्रनिकुञ्जच्छायासु कुत्राऽपि निलीनो जातः ।
सायं हि शान्ते सूर्यातपे सर्वेऽपि सत्वरमेकत्र मिलिताः - बुद्धोपदेशं श्रोतुम् । ताभ्यामपि श्रुतस्तस्योपदेशः । तस्य स्वरो हि सर्वथाऽविकलः सौम्यः स्वस्थः शान्तिमयश्चाऽऽसीत् । गौतमः उपादिशत् – “दुःखमस्ति, दुःखकारणानि सन्ति, दुःखमुक्तेरुपाया अपि सन्ति । जीवनमिदं दुःखरूपमेव, जगदपीदं दुःखपूर्ण
३१