________________
सिद्धार्थस्तं दृष्ट्वान् केनचिद् देवेन च निर्दिष्ट इवाऽभिज्ञातवानपि । स तं महायशस्विनं भिक्षापात्रधरं, प्रशान्ततया चलन्तं, निराडम्बरं, काषायवस्त्रधारिणं वीक्षितवान् ।
ततः पार्वे एव स्थितं गोविन्दं स निभृतमुक्तवान् – "पश्य भोः ! अयमेव स महायशस्वी बुद्धः"। गोविन्दस्तं सावधानं दृष्टवान् । यद्यपि काषायवस्त्रधारिणां शतशो भिक्षूणामेवाऽन्यतमः स झटिति समभिज्ञायमानो नाऽऽसीत् तथाऽपि गोविन्दस्तमभिज्ञातवान् । आम्, स एवाऽऽसीद् बुद्धः । द्वावपि तं निरीक्षमाणावेव तमनुगतवन्तौ ।
बुद्धः स्वमार्गे उपशान्ततया गच्छन्नाऽऽसीत् । तन्मुखमण्डलं गाढं विचारमग्नमिवाऽभासत । अथाऽपि नैव तद् विषण्णं नाऽपि च प्रहृष्टमासीत् । स स्वचित्तेऽत्यन्तं प्रसन्नतामनुभवन्निवाऽलक्ष्यत । स्वस्थशिशोर्मुखे इव तस्याऽपि वदनेऽव्यक्तं स्मितमुल्लसति स्म । अन्यभिक्षव इव सोऽपि शाटकमेकं धृत्वा चलन्नासीत् तथाऽपि तस्य वदनं, पदन्यासाः, शमवती भूमिन्यस्ता दृष्टिः, लम्बमानो हस्तः, हस्तस्य च प्रत्येकमङ्गुल्यः, ननु समग्रमप्यस्तित्वं केवलं परमां शान्ति पूर्णतां चैव द्योतयति स्म । तस्य सम्पूर्णेऽपि व्यक्तित्वे न काऽपि तृष्णा स्पृहा वा प्रकटति स्म न वा कस्याऽप्यनुकरणं तत्राऽभासत । केवलमविच्छिन्ना शान्तिरक्षीयमाणं तेजोऽनिर्वचनीया च स्वस्थता स्फुरति स्म ।
___ नगरं प्राप्य गौतमो भिक्षार्थमितरभिक्षुवदेव गृहाण्यटितवान् । इमौ च द्वौ श्रमणौ तस्य पूर्णतयोपशान्तेन व्यवहारेण, अक्षुब्धयाऽऽकृत्या चैव तमभिज्ञातवन्तौ । तत्राऽऽकृतौ न काऽपि काङ्क्षाऽभिलाषो वा, न कोऽपि दम्भो न वा कोऽपि प्रयत्नो
30