________________
तया गदितं – "अवश्यं श्रमण ! मयाऽनेकशः स पूज्यो दृष्टोऽस्ति । बहुधा स भगवान् काषायवस्त्रधारी नगरमार्गेषु भिक्षार्थमटन्, शान्ततया भिक्षापात्रं गृहद्वाराग्रे धरन्, भृतं च भिक्षापात्रं गृहीत्वा प्रतिनिवर्तमानश्च मयाऽवलोकितोऽस्ति" ।
एतत् सर्वं गोविन्दो मन्त्रमुग्धो भूत्वा श्रुतवान् । स इतोऽपि बहु प्रष्टुं श्रोतुं च समुत्सुक आसीत् किन्तु सिद्धार्थस्तस्य गमनकालं स्मारितवान् । ततो द्वावपि तां प्रति कार्तश्यं दर्शयन्तौ निर्गतौ ।
अथ जेतवनं प्रति गमनार्थं बहवो बुद्धानुयायिनो भिक्षुका यात्रिकाश्च प्रस्थिता आसन् अत एतावपि द्वौ कमपि मार्गमपृष्ट्वा तेषामेव पृष्ठतो जेतवनं प्रति प्रस्थितौ । यदा तौ तत्र प्राप्तौ तावता रात्रिर्जाताऽऽसीत् । यात्रिकाणामागमनं तु निरन्तरं भवति स्म । सर्वेषामपि तेषां निवासं प्रार्थयमानानां प्राप्नुवतां च शब्दैर्वातावरणं कोलाहलमयं सञ्जातम् । एतावपि श्रमणावभ्यस्तारण्यजीवनौ शीघ्रमेव मौनमेव चाऽऽवासं प्राप्तवन्तौ प्रत्यूषपर्यन्तं च तत्रैवोषितौ ।
__सूर्योदयवेलायां तु तत्र प्रभूतान् श्रद्धालुजनान् बुद्धदर्शनार्थमत्युत्सुकान् दृष्ट्वा तौ विस्मयाकुलौ जातौ । काषायवस्त्रधारिणो बहवो भिक्षवस्तस्य विशालस्योद्यानस्य प्रत्येकं मार्गेषु सञ्चरन्ति स्म । यत्र तत्र वृक्षाणामधस्तात् केचिद्ध्यानार्थमुपविष्टाः, केचितु शास्त्रादिचर्चासु संलग्नाः । एवं च दूरतस्त्वेतदुद्यानं मधुमक्षिकाभिः सङ्कुलो मधुकोश इव प्रत्यभासत ।
ततः प्रायशः सर्वेऽपि भिक्षवो भिक्षाग्रहणार्थं स्वस्वभिक्षापात्रं गृहीत्वा नगरं प्रति प्रस्थिताः । ते हि प्रत्यहमेकवारमेवाऽभुञ्जत । अन्येषां तु का वार्ता ? स्वयं भगवान् बुद्धोऽपि नगरे भिक्षाटनं करोति स्म।
२९