________________
३. गौतमः
श्रावस्तीनगरे प्रत्येकं बालकोऽपि महायशसो बुद्धस्य नाम जानाति स्म, प्रत्येकं गृहं चाऽपि मौनतया भिक्षां याचमानान् गौतमस्य भिक्षुकान् सर्वविधां भिक्षां दातुमुत्सुकमासीत् । नगरासन्नमेव गौतमस्याऽभीष्टा वसतिः जेतवनाभिधमुपवनमासीत्, यद्धि पूर्णपुरुषस्य परमोपासकेन धनाढ्यश्रेष्ठिनाऽनाथपिण्डिकेन बुद्धाय तच्छिष्येभ्यश्च समर्पितमासीत् ।
,
अथैताभ्यां द्वाभ्यामपि युवतापसाभ्यां पृच्छया जनवादेन च ज्ञातमासीद् यद् गौतमस्य वसतिरस्मिन्नेव प्रदेशे विद्यते । यदा तौ द्वौ श्रावस्तीनगरं प्राप्तौ तदा प्रथमे एव गृहे भिक्षार्थं मौनतया स्थितयोस्तयोर्द्रागेव गृहिण्या भिक्षान्नमुपढौकितम् । द्वाभ्यामपि तदन्नं विभक्तं, सिद्धार्थेन च तस्यै स्त्रियै पृष्टं 'आर्ये ! आवां द्वावप्यरण्यादागतौ स्वो महाज्ञानिनो बुद्धस्य दर्शनार्थं तन्मुखपद्माच्च निःसृतमुपदेशामृतं पातुं किं तत्रभवती ज्ञापयेत् आवां, कुत्र स भगवान् निवसति ?”
44
स्त्रियोक्तं " भवन्तावुचिते स्थले एवाऽऽगतौ भोः श्रमणौ ! । महाज्ञानी भगवान् बुद्धोऽधुनाऽनाथपिण्डिकस्य जेतवनाभिधोद्याने उषितोऽस्ति । तत्र तदुपदेश श्रवणार्थमागतानां जनानां कृते महदानुकूल्यं वर्ततेऽतो भवन्तौ तत्रैव रात्रिवासं कल्पयितुं शक्नुयाताम्' ।
—
—
श्रुत्वैतत् प्रहृष्टौ गोविन्दः सानन्दमवदत् – “अहो ! एवं, तर्हि सिद्धं नौ कार्यं, आवयोर्यात्रा समाप्तेव । किन्तु कथयतु भोः यात्रिकाणां मातर् ! किं भवती बुद्धं जानाति खलु ? किं भवत्या कदाऽपि स भगवान् दृष्टचरः खलु ?"
२८