________________
मतिः । अतोऽहं विचारयामि यद् न कोऽपि जनः केवलमुपदेशश्रवणेनैव निर्वाणं प्राप्नुयात्, तथा हे भगवन् ! भवच्चित्ते यदा ज्ञानप्रबोधो जातस्तत्क्षणीयां परिस्थितिं भवानपि न कमपि जनं शब्दरुपदेशैर्वा विवरीतुं शक्तः । परमज्ञानिनो बुद्धस्योपदेशो हि बहून् विषयान् व्याप्नोति, प्रभूतं शिक्षयति - सदाचारेण कथं जीवितव्यम्, असत्पथश्च कथं परिहर्तव्यः - इत्यादि । किन्तु भगवता - लक्षेष्वेकेनैव केवलं - स्वयं यदनुभूतं तस्य निर्देशोऽपि ह्यस्मिन् स्पष्टे सारवति चोपदेशे नैव प्राप्यते । इदमेव भवदुपदेशश्रवणकाले मया विचारितं समनुभूतं च । अत एवाऽहं मम स्वमार्गे एव गमिष्यामि, नाऽन्यं श्रेष्ठं वा सिद्धान्तं धर्मं वा मृगयितुं, यतोऽहं जानामि यत् - स नाऽस्त्येव - किन्तु, सर्वान् सिद्धान्तान् गुरूंश्च परिहर्तुं तथैकाक्येव मम ध्येयं प्राप्तुं मर्तुं वा । परन्तु, भगवन् ! अहं सदैव स्मरिष्यामि दिनमिदं क्षणं चेमं - यदा किल कश्चन पवित्रो महापुरुषो मम दृष्टिपथमागत इति" ।
बुद्धस्याऽक्षिण्यवनते जाते तस्याऽलब्धतलं वदनं पूर्णसमवृत्तिमभिव्यनक्ति स्म ।।
सोऽतीव मृदुतयोक्तवान् – “भवत ऊहः क्षतिमुक्तः स्यादित्याशासेऽहम् । भवान् स्वीयं ध्येयं प्राप्नुयात् । किन्तु कथयतु माम् - किं भवता मम भिक्षूणां सङ्घो दृष्टो वा ? - दृष्टा वा एते मम भ्रातरो ये ममोपदेशं प्रति समर्पिताः ? किं भवान् चिन्तयति भोः श्रमण ! यन्मदुपदशितं मागं त्यक्त्वा सांसारिकं तृष्णामयं च जीवनं प्रति निवर्तनं श्रेयस्करमेतेषामुचितं प्रतिभायात् खलु ?"
"अयं विचारो नैव कदाऽपि मम चित्ते आपतितः प्रभो !" - सिद्धार्थ उच्चैः कथितवान् । “एते सर्वेऽपि कामं भवदुपदेशमनुसरन्तु तेषां ध्येयं च सिद्धं भवतु । अन्येषां जीवनं
३७