________________
परिच्छेत्तुं नाऽर्हाम्यहम् । मया तु केवलं मम जीवनमेव परिच्छेत्तव्यम् । तथा तदर्थमेव मया किञ्चित् ग्रहीतव्यं त्यक्तव्यं वा । वयं श्रमणा हि स्वस्मिन्नेव मुक्तिं गवेषयामो भगवन् !"।
"यद्यहं भवदनुयायी स्यां तदा मम भयमस्ति यत् - केवलमहं बाह्यत एव स्यां, तथा, आत्मवञ्चकोऽप्यहं स्यामेव यथा - अहं शान्तो जातोऽस्मि - मम निर्वाणं प्राप्तमस्ति - इत्यादि । किन्तु वस्तुतो ममाऽस्मिताऽहंता च सजीवा वृद्धिङ्गता चैव भवेत्, यतः सा खलु भवदुपदेशानुसरणेन भवद्विषये भवतो भिक्षुसङ्ग्रे च समर्पणेनऽनुरागेण च परावर्तनं प्राप्येत" ।
अविचलप्रकाशेन मैत्रीभावेन च बुद्धः स्मितलेशं कुर्वन् सिद्धार्थं किञ्चिद्वेलं निश्चलतया निरीक्षितवान्, ततो दुर्लक्ष्येण मुखभावेन स तं गन्तुं निर्दिशन्नुक्तवान् –
__ "भवान् चतुरोऽस्ति भोः श्रमण !, चातुर्यपूर्णं वक्तुं जानात्यपि भवान् । किन्तु मित्र ! अतिचातुर्यं प्रति सावधानो भवतु" ।
बुद्धस्ततो निर्गतः, किन्तु तस्य दृष्टिः स्मितं च सिद्धार्थस्य स्मृतिपटे शश्वत्तया मुद्रिते जाते । सोऽचिन्तयत् – 'न कदाऽपि मया कश्चिज्जन एवं पश्यन्, इत्थं च स्मितं कुर्वन्, इत्थमुपविशन् इत्थं च चलन् दृष्टः । अहमपि ह्येवंरीत्यैव द्रष्टुं चलितुं स्मयितुमुपवेष्टुं चेच्छामि - सर्वथा मुक्तः, सर्वथा सज्जनः, सर्वथा संयतः, सर्वथा सरलः, सर्वथा बालसदृशो रहस्यमयश्च । जनस्तादृशं द्रष्टुं चलितुं च तदैव प्रभवेद् यदा तेन स्वात्मा विजितो भवति । अहमपि स्वात्मानं जेष्यामि' ।।
'मयैकोऽयमेव मनुष्योऽद्यावधि दृष्टो यत्पुरतो ममाऽक्षिणी नते भवतः । इतः परं मेऽक्षिणी अन्यस्य पुरतो नैव नमेताम् । न चाऽप्यन्यस्य कस्यचिदुपदेशो मामाकृषेत् कदाऽपि, यतो ह्यस्य
३८