________________
I
स्म, केवलं शृणोति स्मैव । स्वजीवने स्वीयप्रयत्नेषु स्वकीयदुःखेषु च सहभागितां वहन्नीदृश: श्रोता प्राप्तो मया - इत्येतत् कियदद्भुतं सञ्जातमिति सिद्धार्थश्चिन्तितवान् ।
कथनान्ते, यदा सिद्धार्थो नदीतटस्थितस्य वृक्षस्य, सर्वथा विषण्णस्य स्वस्य, पवित्रस्यौङ्कारस्य च विषये, तथा गाढनिद्रानन्तरं तेनाऽनुभूतस्य नदीं प्रति प्रेम्णो विषये कथितवान् तदा तु वासुदेव इतोऽप्यधिकं सावधानीभूय नेत्रे च निमील्य पूर्णतयैकाग्रो भूत्वा तं श्रुतवान् ।
सिद्धार्थेन स्ववृत्तकथने समर्थिते दीर्घान्तरालं मौनेन व्यतीय वासुदेवस्तमुक्तवान् – ‘तथैव जातं यथा मया चिन्तितम् । नदी भवता सह संवादं कृतवती, सा भवति सौहार्दमपि प्रकटितवती, सा भवता सह भाषते । एतच्च सर्वथा शोभनमस्ति । भवान् मया सहैव वसतु, मित्र ! | पुरा ममाऽपि पत्नी आसीद् या मया सहैवाऽत्र कुटीरे निवसति स्म । किन्तु बहोः कालात् पूर्वमेव सा मृता । तत्प्रभृत्यहमेकल एव जीवामि । इदानीं भवान् यदागतस्तच्छुभमेव । अत्र कुटीरे भवान् मया सहैव निवसतु । उभयोरप्यावयोः कृतेऽत्र पर्याप्तं स्थानमन्नं चाऽस्ति' ।
'भृशमुपकृतोऽस्मि' – सिद्धार्थ उक्तवान् । 'उपकृतोऽस्म्यहं भवदामन्त्रणं च स्वीकरोमि । तथा वासुदेव ! यद् भवता स्थैर्येणैकाग्र्येण च मम कथनं श्रुतं तदर्थमप्युपकृतोऽस्ति । अत्र जगति विरला एव जना श्रोतुं जानन्ति । मया चाऽद्ययावदपि भवादृशः श्रोता न लब्धः । भवतः सकाशादहमपि श्रवणकलामेनां शिक्षिष्ये' ।
वासुदेवेनोक्तम् – ‘अवश्यं भवान् शिक्षिष्यते, परं न मत्सकाशात् । नद्येषा मां शिक्षितवत्यस्ति श्रोतुम् । भवानपि तत एव शिक्षिष्यते । नदी हि सर्वमपि जानाति, तथा यः कोऽपि ततः
I
११७