________________
निर्विण्णोऽस्ति - इति भवान् मां कथयिष्यतीत्यप्याशासे' ।
एतावता च नौनदीमध्यं प्राप्ताऽऽसीत् । इदानीं वासुदेवो जलप्रवाहस्य क्षिप्रत्वात् नौदण्डमपि वेगेन चालयन्नासीत् । स नावः पर्यन्तभागं पश्यन् दृढतयाऽप्यव्याकुलतया नावं चालितवान् ।
नौकायामुपविष्टः सिद्धार्थस्तं नावं चालयन्तं विलोकितवान् स्मृतवांश्च यत् – कथं स एकदा, श्रामण्यस्याऽन्तिमदिनेषु पुरुषमेनं प्रति प्रगाढमाकर्षणमनुभूतवानासीदिति । स वासुदेवस्याऽऽमन्त्रणं सहर्ष स्वीकृतवान् । यदा तौ नदीतटं प्राप्तौ तदा स नौकां सुरक्षिततया स्थापयितुं वासुदेवस्य साहाय्यं कृतवान्। ततो वासुदेवस्तं स्वकुटीरेऽनयत्, तस्मै चाऽऽहारं जलं चाऽदात् । सिद्धार्थस्तमाहारं जलं च वासुदेवप्रदत्ताम्रफलेन सह ससन्तोषमशितवान् ।
ततः, सूर्यास्तमनवेलायां तौ द्वावपि नदीतीरस्थितस्य वृक्षस्कन्धस्योपरि निषण्णावास्तां, तदा च सिद्धार्थो वासुदेवाय मूलादारभ्य स्वजीवनस्य सर्वमपि वृत्तं कथितवान् तथाऽद्याऽपि प्रवृत्तस्य विषादमयमुहूर्तस्याऽनन्तरं स कथं तं प्राप्तवानित्यादि सर्वं कथितवान् । निशीथं यावत् तयोर्गोष्ठी प्रवृत्ता ।
वासुदेवोऽपि च स्थिरतया सर्वथैकाग्रतया च सर्वमपि तत्कथनं श्रुतवान् । तस्य जन्म शैशवमध्ययनं साधनां विषयसुखान्यपेक्षाश्चाऽधिकृत्य सर्वमपि तद्वृत्तं स श्रुतवान् । वासुदेवस्याऽयं श्रेष्ठो गुण आसीद् यो विरलजनेष्वेव दृश्यते - सः श्रोतुं जानाति स्म । एकमपि शब्दमनुच्चारयन्नपि स तथा शृणोति स्म यथा कथयितुः प्रतीतिर्भवति स्म यत् स प्रत्येकं शब्दं कर्णाभ्यां गृहीत्वा हृदये धारयन्नस्ति, शान्त्या धैर्येण श्रवणोत्सुकतयैकमपि च शब्दमजहद् - इति । श्रवणे स सर्वथाऽधृतिं त्यजति स्म, न कुत्राऽपि प्रशंसां निन्दां वा करोति
११६