________________
सिद्धार्थ उच्चैर्हसितवान् । 'प्रागेवाऽद्याऽहं वस्त्राण्यधिकृत्य प्रमाणितोऽस्मि ततश्च सन्देहास्पदं जातोऽस्मि । किं भवान् मे वस्त्राणि स्वीकरिष्यति ? यतस्तान्यधुना मत्कृते क्लेशस्यैव हेतुभूतानि सन्ति । यतश्च मया वक्तव्यमेव भवतो, यन्नदीपारप्रापकाय भवते दानार्थं मत्पाश्र्वे न किञ्चिदपि धनमस्ति'।
'आर्य उपहासं कुर्वन्नस्ति' इति वदन् नाविको हसितवान् ।
'मित्र ! नाऽहमुपहसामि । भवान् हि पूर्वमप्येकदा मामेतस्या नद्यास्तीरान्तरं प्रापितवान्, निःशुल्कम् । अतः कृपयाऽद्याऽपि तथैव प्रापयतु, अथवा तच्छुल्करूपेण मम वस्त्राणि गृह्णातु' ।
'ततः किमार्यो वस्त्रैविनैव प्रस्थानमनुवर्तयिष्यते वा ?'
'मम ततोऽप्यग्रे गन्तुमिच्छैव नाऽस्ति । अहमिच्छामि यद् - भवान् मे कानिचन जीर्णवस्त्राणि दद्याद् मां चाऽत्र भवतः सहायकत्वेन शिष्यत्वेन वा स्थातुमनुमन्येत, यतोऽहं नौचालनं शिक्षितुमिच्छामि'।
नाविक आगन्तुकमेनं सूक्ष्मतया सुचिरं निरीक्षितवान् ।
'अहं भवन्तं प्रत्यभिजानामि' - अन्ते सोऽकथयत् । 'भवानेकदा मम कुटीरे शयितवान् खलु ! । किन्तु तद्धि बहुकालपूर्वमेव घटितम् । प्रायो विंशतिर्वर्षाणि ततोऽपि वाऽधिको कालो व्यतीतः स्यात् तस्य । अहं भवन्तं नद्यास्तीरान्तरं प्रापितवान्, ततश्चाऽऽवां सुहृदौ भूत्वा वियुक्तावभवताम् । किं भवान् कश्चन श्रमणस्तु नाऽऽसीत् खलु ? अहं भवदभिधानं नैव स्मरामि' ।
'मम नाम सिद्धार्थ इत्यस्ति । पुरा यदा भवान् मां दृष्टवान् तदाऽहं श्रमण आसम्' ।।
'भवतः स्वागतमस्ति सिद्धार्थ ! । ममाऽभिधानं वासुदेव इत्यस्ति । अद्य भवान् मेऽतिथीभूय मत्कुटीरे निवत्स्यसि शयिष्यते चेत्याशासेऽहम् । भवान् कुत आगतोऽस्ति किमर्थं च महाघवस्त्राणां
११५