________________
उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा ? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म ।
सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनि च शृण्वन् । ___यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् ।
"किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् ।
कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि उपवेश्य प्रस्थितः ।
'भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'।
मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च - 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' ।
'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' ।
___ 'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' ।
११४