________________
५. नाविकः
'अहमत्रैव, नद्यास्तीर एव वत्स्यामि', सिद्धार्थश्चिन्तितवान् । ‘सैवैषा नदी यामहं नगरगमनकालेऽतिक्रान्तवान् । एक: सौहार्दपूर्णो नाविको मामस्याः पारं प्रापितवान्। अहं तत्समीप एव गमिष्यामि । एकदा हि तस्य कुटीरान्नवं जीवनं प्रति मम पन्थाः प्रारब्ध आसीत् । तच्च जीवनमिदानीं जीर्णं विनष्टं चाऽस्ति । अथ च भवतु नाम मे इदानींतनः पन्थाः, नूतनं च जीवनं तत्कुटीरादेव पुनः प्रारभ्यताम् !' ।
स प्रसन्नतया जलप्रवाहं, तस्य स्वच्छं हरितवर्णं, तथाऽद्भुतसंरचनापूर्णास्तस्य स्फटिकप्रभा रेखा निरीक्षितवान् । जलतलादुत्थिता प्रोज्ज्वलमौक्तिका इव जलबुद्बुदा दर्पणवत्स्वच्छे जले तरन्त आसन् नीलवर्णमनन्ताकाशं च तेषु प्रतिबिम्ब्य स्म । नदी किल तं प्रति लोचनसहस्रैः - हरित - शुक्ल-नीलवर्णैविलोकयन्तीवाऽभासत । स नद्यां कियत् स्निह्यति स्म ! नद्यपि तं कियदाकृषति स्म ! नद्यै स कियत् कार्तज्ञ्यं वहति स्म !
तस्याऽन्तःकरणान्नूतनतयोत्थितो ध्वनिस्तं प्रेरयन्नासीत् - 'नद्यामेतस्यां स्निह्यतु, एतस्यास्तटे एव वसतु, नदीसकाशाच्च शिक्षताम्' । ‘आम्' – तेनोक्तम् । स नद्याः सकाशाच्छिक्षितुमिच्छति स्म, सतां श्रोतुमिच्छति स्म । यः कोऽपि नदीमेनां तद्रहस्यानि चाऽवबुध्यति स बह्ववबोद्धुं शक्नोति; बहूनि रहस्यानि, ननु सर्वाण्यपि रहस्यानि तस्य कृते समुद्घाटितानि भवन्तीति तस्य प्रतिभातम् ।
परमद्य तु स नद्या केवलमेकतमद् रहस्यं वीक्षितवान्, तद् रहस्यं येन तस्याऽऽत्मा दृढतया धारितः । तेन निरीक्षितं यन्नदीजलं सातत्येन प्रवहमानमपि प्रतिक्षणं विवक्षितप्रदेशे
११३