________________
सर्वमपि शिक्षितुं शक्नोति । भवताऽपि तस्याः सकाशात् सयत्न निमज्जनमगाधे चाऽवगाहनं शिक्षितमेव खलु ! । तथा, धनिकः प्रतिष्ठितश्च सिद्धार्थो नौकाचालको भविष्यति, विद्वान् ब्राह्मणः सिद्धार्थो नाविको भविष्यति - इत्येतदपि भवान् नदीसकाशादेव शिक्षितवान् खलु ! । इतोऽप्यधिकं ततो बढेव शिक्षिष्यते भवान्' ।
ततो दीर्घमौनानन्तरं सिद्धार्थः पृष्टवान् – 'किं तद् वासुदेव ! ?'
___वासुदेव उत्थितः । 'रात्रिर्बहु व्यतीताऽस्ति' - स उक्तवान् । 'अधुना शयावहे । यच्च भवान् पृच्छति तस्योत्तरं दातुमहं न शक्तो मित्र ! । भवान् यथाकालं तज्ज्ञास्यत्येव, अथवा भवान् तज्जानात्येव। तथाऽहं किल विद्वज्जनो नाऽस्मि, भाषितुं विचारयितुं वा च नैव जानामि । अहं केवलं श्रोतुं भगवन्निरतश्च भवितुं जानामि । अन्यद्धि मया किञ्चिदपि नैव शिक्षितमस्ति । यद्यहं भाषितुं शिक्षयितुमुपदेष्टुं वाऽशक्ष्यस्तदाऽहं गुरुरुपदेशको वाऽभविष्यम् । किन्तु तथा नास्ति, यतोऽहं केवलमेको नाविकोऽस्मि, मम कार्यं तु जनानां नदीपारप्रापणमस्ति । मया हि सहस्रशो जना नदीपारं प्रापिताः सन्ति, किन्तु तेषां सर्वेषामपि जनानां नयेषाऽन्तरायरूपैव जाताऽस्ति, नाऽन्यत् किञ्चित् । जना हि धनार्थं वाणिज्यार्थं विवाहाद्यर्थं यात्रार्थं वा पर्यटिताः, तदा च नद्येषा तेषां मध्येमार्गं समागता, नाविकश्च तानवरोधभूतामेनां त्वरया तारयितुं विद्यमान आसीत् । यद्यपि सहस्रशो जनेषु केचन, पञ्च-षा जनास्तादृशा अप्यासन् येषां कृते नद्येषाऽवरोधरूपा नाऽऽसीत् । ते एतस्या ध्वनि श्रुतवन्तस्तं प्रति च सकर्णा जाताः । तेषां कृते चैषा नदी पवित्राऽस्ति यथा मत्कृते । अधुना शयेवहि सिद्धार्थ !' । सिद्धार्थो नाविकेन सहैवोषितवान्, नौचालनं नौसम्भालनं
११८