________________
च शिक्षितवान् । नौसम्बन्धिनि कार्ये चाऽसति स वासुदेवेन सह व्रीहिक्षेत्रे कार्यं करोति स्म, काष्ठानि सगृह्णाति स्म, फलावचयं च करोति स्म । स नौकादण्डान् निर्मातुं, नावं संस्कारयितुं, करण्डकांश्च रचयितुं शिक्षितवान् । यद्यत् स कृतवान् शिक्षितवांश्च तत्सर्वेणाऽपि स सन्तुष्ट आसीत् । कालश्च त्वरितं व्यत्येति स्म । परं स वासुदेवसकाशाद् यच्छिक्षितवांस्ततोऽप्यधिकं नद्याः सकाशाच्छिक्षितवान्, सततं च शिक्षितवान् । सर्वस्मादप्यधिकं तु स ततः सकाशात् श्रोतुं, निश्चलचित्ततया श्रोतुं, जिज्ञासापूर्णेनोद्घाटितेन च हृदयेन, अनासक्ततया, निरीहतया, अपरीक्षकतया अभिप्रायमुक्ततया च श्रोतुं शिक्षितवान् ।
स वासुदेवेन सह सुखेन निवसति स्म । तौ द्वावपि च कादाचित्कतयैव सम्भाषेते स्म, तदपि चाऽल्पैर्दीर्घालोचनपूर्णेश्चैव शब्दैः । वासुदेवो हि सर्वथा मितभाषी आसीत्, सिद्धार्थश्च विरलतयैव तं भाषयितुं समर्थो भवति स्म ।
एकदा स तं पृष्टवान् - 'किं भवताऽपि नद्याः सकाशाद्रहस्यमेतच्छिक्षितं यत् - कालनामकं किमपि वस्तु नास्त्येवेति खलु ?'
श्रुत्वैतद् वासुदेवस्य मुखे प्रोज्ज्वलं स्मितं व्याप्तम् । तेनोक्तम् – ‘एवं सिद्धार्थ !, परं मन्येऽहं यद् भवतः कथनस्याऽयमेव भावार्थः स्यात्, यथा - नदी हि समकालमेव सर्वत्र वर्तते - उद्गमस्थाने, मुखे, प्रपाते, घट्टे, प्रवाहे, समुद्रे, पर्वते चेति सर्वेष्वपि स्थानेषु; तथा तस्याः कृते केवलं वर्तमानकाल एव विद्यते, भूतकालस्य भविष्यत्कालस्य च छायाऽपि तस्यां नैव पततीति ?'
एवमेव' – सिद्धार्थोऽब्रवीत्, 'यदा चाऽहमेतज्ज्ञातवान्, मया मे जीवनमपि समीक्षितं, तदपि च नदीतुल्यमेवाऽवर्तत ।
११९