________________
बालः सिद्धार्थः, प्रौढः सिद्धार्थो वृद्धश्च सिद्धार्थः केवलं छायाभिरेव भिद्यन्ते न पुनस्तत्त्वतः । अतीते सिद्धार्थस्य पूर्वजन्मान्यपि नाऽऽसन् भविष्यति च तस्य मरणं ब्रह्मणि च तन्निवर्तनमपि नाऽस्ति । अतीतं नामाऽनागतं च नाम न किमपि विद्यते. प्रत्येकं वस्तु केवलं वर्तमानमेवाऽस्ति, वर्तमान एव च वास्तविकोऽस्ति' ।
सिद्धार्थोऽतीव प्रसन्नतया वदन्नासीत् । अनयोपलब्ध्या स भृशं प्रमुदित आसीत् । 'जीवनस्य सर्वमपि दुःखं, भयं, सन्तापश्च काले एव निहिता नाऽऽसन् खलु ? जगतः सर्वाण्यपि कष्टानि पापानि च काले जिते एव, काले निरस्ते एव वा न जितानि खलु ?' - स सोत्साहं वदन्नासीत्, किन्तु वासुदेवः केवलं मधुरं स्मित्वा स्वशिरश्चालितवांस्तदभ्युपगमदर्शनार्थं, स्वकार्ये च प्रवृत्तः ।
___ यदा च प्रावृषि नद्यां पूरं समागतं तरङ्गमालाकुला च सोच्चैर्जग तदा सिद्धार्थः पुनरप्यकथयत् – 'किं नैतत् तथ्यं मित्र ! यन्नद्येषा बहून् ध्वनीन् धारयति ? राज्ञो, योधस्य, गोः, पक्षिणो, गर्भवत्याः स्त्रियो, निःश्वसतो जनस्य सहस्रशश्चाऽन्ये ध्वनयोऽस्यां न सन्ति खलु ?' _ 'सत्यमेतद् भोः !', वासुदेवः शिरश्चालनपूर्वं कथितवान् - 'नद्यामस्यां सर्वेषामपि जीवानां ध्वनयः सन्त्येव' ।।
'तथा जानाति भवान् ननु, यद् - यदाकदाचित् कश्चन तस्याः सहस्रशो ध्वनीन् समकालमेव शृणोति तदेयं किमुच्चारयति ?' – सिद्धार्थोऽग्रेऽपृच्छत् ।।
वासुदेव उच्चैर्हसितवान् । ततः स सिद्धार्थं प्रति किञ्चिदवनम्य तस्य कर्णे पवित्रमोङ्कारमुच्चारितवान् । एतदेव च तदासीद् यत् सिद्धार्थेनाऽपि श्रुतम् ।
१२०