________________
गच्छता कालेन सिद्धार्थमुखे विलसत्स्मितं वासुदेवस्मितमनुकर्तुमारब्धम् । तदेव तेजस्तदेव सुखं, ता एव च प्रकाशिता मुखरेखाः, तदेव च बालसहजं मौग्ध्यं, तदेव च वृद्धजनोचितं गाम्भीर्यम् । बहवः प्रवासिनस्तौ द्वावपि नाविको सङ्गतौ दृष्ट्वा ‘भ्रातरावेता'विति निश्चिन्वन्ति स्म । बहुधा सायाह्ने तौ द्वौ सममेव नदीतटे वृक्षस्कन्धमवलम्ब्योपविशतः स्म । ततो निःशब्दतया द्वावपि नदीं शृणुतः स्म । नद्येषा तयोः कृते न केवलं जलमासीदपि तु जीवनस्याऽऽत्मनः शाश्वततत्त्वस्य च ध्वनिरासीत् । बहुशश्चैवमपि भवति स्म यन्नदीश्रवणकाले द्वयोरपि चिन्तनं तुल्यमेव भवति स्म, कदाचित् पूर्वतनदिनस्य संवादविषयकं, कदाचिच्च कञ्चन प्रवासिनमधिकृत्य वा - यस्य स्थित्या नियत्या च तयोश्चित्तमाक्रान्तं स्यात्, कदाचिन्मरणविषयकं, कदाचिच्च बाल्यमाश्रित्य । तथा यदा नदी तौ सममेव किञ्चन शुभं वदति स्म तदा द्वावपि परस्परं पश्यतः स्म, तुल्यमेव विचारं कुर्वन्तौ, तुल्यस्यैव प्रश्नस्य च तुल्यमेवोत्तरं लब्ध्वा प्रमुदितौ भवतः स्म ।
___ बहुभिः प्रवासिभिरनुभूयते स्म यन्नावो नाविकाभ्यां च किञ्चनाऽद्भुतं तत्त्वं निःसरति स्मेति । कदाचित् त्वेवमपि भवति स्म यद् द्वयोर्नाविकयोरन्यतरस्य मुखं दृष्ट्वा कश्चन यात्रिक: स्वजीवनस्य विषये, विपदश्चाऽधिकृत्य कथनमारभते स्म, स्वकृतानि पापानि निवेदयति स्म, आश्वासनार्थमनुशासनार्थं वा प्रार्थयते स्म । कदाचित् पुनः, कश्चन नद्याः कथनं श्रोतुं तयोः सान्निध्ये रात्रियापनार्थमपि चाऽनुज्ञां गृह्णाति स्म । कदाचिच्च केचन कुतूहलिनो - द्वौ प्राज्ञौ साधुचरितौ योगिनौ वा नदीघट्टे वसत - इति कुतश्चिच्छ्रुत्वा समायान्ति स्म, तौ च बहून् प्रश्नानपि पृच्छन्ति स्म, किन्तु न किञ्चन प्रत्युत्तरं लभन्ते स्म
१२१