________________
नाऽपि च प्राज्ञौ योगिनौ वाऽप्युपलभन्ते स्म । केवलं द्वौ सौहार्दपूर्णौ वृद्धजनौ ते पश्यन्ति स्म, यौ तेषां मूकावथ च विचित्रौ मूर्खो च प्रतिभातः स्म । ततश्चोपहसन्तस्ते कथयन्ति स्म यदीदृशान् निरर्थकान् प्रवादान् प्रसारयन्तो जना नूनं मूर्खा अन्धश्रद्धालवश्च सन्तीति ! |
वर्षाणि व्यतीतानि किन्तु द्वयोरन्यतरोऽपि तेषां गणनां नैव कृतवान् । अथाऽन्यदा गौतमबुद्धस्य शिष्याः केचन भिक्षवो नदीतटे समागता नदीपारप्रापणार्थं च तयोर्विज्ञप्तम् । नौचालनसमये भिक्षूणां सकाशात् ताभ्यां ज्ञातं यन्महात्मा बुद्धो गभीरतया रुग्णोऽस्ति, अचिरादेव च चरमं मरणं नाम निर्वाणं प्राप्य मोक्षं प्राप्स्यतीति, अतस्ते यथाशीघ्रं तत्र स्वगुरुचरणयोरन्तिमं दर्शनमुपदेशं च प्राप्तुं गच्छन्तः सन्तीति । ततश्चाऽल्पेनैव कालेन बहवः श्रमणगणास्तेनैव मार्गेण स्वगुरोः पार्श्वे गन्तुं समागताः । प्रायशः सर्वेऽपि भिक्षवो यात्रिणश्च केवलं गौतमबुद्धस्य विषये तन्निर्वाणस्य विषय एव च वदन्त आसन् । युद्धार्थं प्रयाणस्य समये राज्याभिषेककाले वा यथा जना सर्वदिग्भ्यः समागच्छन्ति, यथा वा मधुकोशं प्रति मधुमक्षिकाणां सङ्घाताः समागच्छन्ति, तथैव सहस्रशो जनाश्चुम्बकीयमाकर्षणमनुभवन्त इव मृत्युशय्यायां शयितं बुद्धं वन्दितुं, तन्निर्वाणोत्सवे सम्मिलितुं युगोद्धारकस्य शाश्वततत्त्वप्राप्तेरवसरे च सन्निहिता भवितुं समागच्छन्ति स्म ।
निर्वाणोन्मुखस्याऽस्य महर्षेविषये सिद्धार्थश्चिराय चिन्तितवान् यस्य वचनानि सहस्रशो जनानां जीवनानि परावर्तितवन्ति, यस्य च वचांसि स स्वयमप्येकदा श्रुतवानासीत्, यस्य च पवित्रं स्वरूपं सोऽहोभावेन दृष्टवानासीदेकदा । स तस्य वात्सल्यस्य विषये चिन्तितवान्, तेन प्ररूपितं निर्वाणमार्गोपदेशं स्मृतवान् । तस्य प्रतिभातं यत् तदा तेनोच्चारितास्ते शब्दाः किलौद्धत्यपूर्णा
१२२