________________
अकालपक्वा इव चाऽऽसन् । स स्मृतवान् यद् दीर्घकालं यावद् गौतमस्य प्रभावान्मुक्तो भवितुमपि स नाऽशकत् । एवं सत्यपि स तस्योपदेशांस्तु नैव स्वीकृतवान् । नैव, वास्तविकः सत्यगवेषको हि कदाऽपि कस्याऽप्युपदेशं नैव स्वीकुर्याद, यदि स यथार्थतया किञ्चित् प्राप्तुमिच्छुक: स्यात् । येन च किन्तु किञ्चित् प्राप्तमस्ति स तु सर्वानपि मार्गान् सर्वाण्यपि च ध्येयानि समनुमोदते, यतः स जानात्येव यत् शाश्वततत्त्वं ये प्राप्ता ये च पूर्णानन्दमेव श्वसन्ति ते हि सर्वथाऽभिन्ना एव ।
अथैकदा, बहुषु जनेषु निर्वाणोन्मुखस्य बुद्धस्य दर्शनार्थं गच्छत्सु, पूर्वकालस्य गणिकानां श्रेष्ठा सुन्दरी कमलाऽपि तदर्थं निर्गताऽऽसीत् । बहोः कालात् पूर्वमेव सा स्वस्याः पूर्वतनजीवनान्निवृत्ताऽऽसीत् । निजं क्रीडोद्यानं सा बौद्धभिक्षूणां विहारार्थं समर्पितवत्यासीत्, स्वयमपि च बुद्धोपदेशानां शरणं गृहीतवत्यासीत् । सम्प्रति च यात्रिणां सेवां कुर्वतीनां स्त्रीणां गणे सम्मिलिताऽऽसीत् । मरणशय्यास्थितं गौतमं ज्ञात्वा साऽपि सामान्यवस्त्राणि परिधाय पादचारेणैव स्वपुत्रेण सह प्रस्थिता । जनैः सह तौ द्वावपि नदीतटं यावत् प्राप्तौ । किन्तु स बालकोऽचिरादेव श्रान्तोऽभवत्, स गृहं प्रतिगन्तुमैच्छत्, विश्रान्तिमैच्छत्, खादितुं चैच्छत् । स वारं वारं रुष्टो भवति स्माऽश्रूणि च स्रावयति स्म । अनेकशः कमलया तेन सह विश्रान्तव्यं भवति स्म । मातुविरोधं कर्तुमसौ चिराभ्यस्त आसीत् । कमलया वारं वारं स भोजयितव्य आसीत्, आश्वासयितव्य आसीत्, कदाचिच्चोपालब्धव्योऽप्यासीत् । कस्यचित् पवित्रस्याऽप्यपरिचितस्य जनस्य कृते कस्मिंश्चिदज्ञाते स्थले गन्तुं खेदावहा कष्टपूर्णा च यात्रा किमर्थं वा कर्तव्येति सोऽवगन्तुं न पारयति स्म । 'म्रियतां नाम सः । तेन बालकस्य मम किम् ?' इति तस्य चिन्तनमासीत् ।
१२३