________________
यदा यात्रिकाणां गणो वासुदेवनौकातोऽनतिदूरे आसीत् तदैव लघुसिद्धार्थः स्वमातरमवदद् यत् स विश्रान्तुमिच्छतीति । कमला स्वयमपि श्रान्ताऽऽसीत् । अतः स बालकाय कदलीफलं खादितुं दत्त्वा स्वयं चैकस्य वृक्षस्याऽधस्तान्नेत्रे निमील्य किञ्चिदिव शयिता। किन्तु, सहसैव तस्या मुखाच्चीत्कारो निर्गतः । एतच्छ्रुत्वा चकितो बालो यावन्मातुर्मुखं विलोकितवान् तावत् तद् भयेन विच्छायं दृष्टम् । तावता च तस्या वस्त्रेभ्यः कश्चन लघुः कृष्णसर्पो निर्गतो येन कमला दष्टाऽऽसीत् ।
ततो भयभीतौ तौ द्वावपि ततो धावित्वा यात्रिकगणेन सम्मिलितौ । यदा च तौ घट्ट प्राप्तौ तदैव कमलाऽग्रे गन्तुमशक्ता सती तत्रैव पतिता । एतेन भीतो बालको मातरं परिष्वज्य सहायार्थमुच्चैरारटितवान्। साऽपि चोच्चै रुदती सहायार्थं पूत्कृतवती । तयोश्चाऽऽरावा नौकासन्नस्थितेन वासुदेवेन श्रुताः । स झटिति तत्राऽऽगत्य कमलां स्वीयहस्ताभ्यां वहन् कुटीरं प्रति गतः । बालकोऽपि तत्पृष्ठत एव धावितः, शीघ्रं च ते उटजं प्राप्ताः । इन्धनानि प्रज्वालयन् सिद्धार्थस्तत्रैवाऽऽसीत् । तेन मुखमुन्नम्य प्रथमं तु बालकवदनं दृष्टम् । दृष्टमात्रे च तस्मिन् तन्मनसि किञ्चित् स्मरणमभवत् । ततश्च स वासुदेवहस्तयोः स्थितां कमलां दृष्टवान् शीघ्रमेव च तां निःसञ्जामपि प्रत्यभिज्ञातवान् । ततश्च तेन ज्ञातं यत् स बालस्तु स्वस्यैवाऽपत्यमासीत् यन्मुखं तस्य किञ्चित् स्मारितवत् । तस्य हृदयस्पन्दनानि वर्धितानि । ___कमलाया व्रणं जलेन स्वच्छीकृत्यौषधेन पूरितम् । किन्तु तत् कृष्णवर्णं जातमासीत्, तस्याः शरीरमपि च शोथमयं सञ्जातमासीत् । तस्या मुखे चेतनप्रदमौषधं प्रक्षिप्तं, तेन साऽल्पवेलायामेव ससञ्ज्ञा जाता । सा कुटीरे सिद्धार्थशय्यायामेव
१२४