________________
शयिताऽऽसीत्, तथा सिद्धार्थो, यस्मिन् सा पूर्णतयाऽनुरक्ताऽऽसीत्, स, तत्पुरत एव स्थितो दृष्टस्तया ।
'किमहं स्वप्नं पश्यामि वे 'ति चिन्तयन्ती सा स्मयमाना स्वदयितस्य मुखं विलोकितवती । शनैः शनैस्तया स्वपरिस्थितिरवबुद्धा, सर्पदंशोऽपि स्मृतः, ततश्च व्याकुलतया सा स्वपुत्रमाहूतवती ।
'चिन्तां मा कार्षीः, सोऽत्रैवाऽस्ति' – सिद्धार्थ उक्तवान् । तन्नयनयोरन्तर्निरीक्षितवती सा विषमयशरीरवत्त्वात् कष्टेनाऽवदत् – 'भवान् वृद्धो जातोऽस्ति प्रिय !, भवतः केशा अपि पलिताः सञ्जाताः । एवं सत्यपि भवान् तस्य युवश्रमणस्य सदृश एवाऽसि य एकदा विवस्त्रो रजोगुण्डितपादश्च ममोद्याने समायातः । कामस्वामिनं मां च विहाय यदा भवान् गतवांस्ततोऽप्यधुना भवानाऽऽधिक्येन श्रमणवत् प्रतिभाति । भवतो नेत्रे तस्य युवश्रमणस्येवैव स्तः सिद्धार्थ ! | अहम वार्धक्यग्रस्ता सञ्जाताऽस्मि, किं भवान् मां प्रत्यभिजानाति ?'
सिद्धार्थः स्मितवान् कथितवांश्च 'प्रिये कमले ! अहं त्वां शीघ्रमेव प्रत्यभ्यजानम्' । ततस्तस्या नेत्रे विषप्रभावाद् घूर्णिते निमीलिते च । एतद् दृष्ट्वा बालको रोदनमारब्धवान् । तदा सिद्धार्थस्तमुत्सङ्गे शाययित्वा विलपन्तं तं मस्तके लालितवान्। अथ च बालस्य तस्य मुखं दृष्ट्वा, स स्वीयशैशवेऽभ्यस्तमेकं ब्राह्मणगानं स्मृतवान् । ततो मन्दमन्दं स मधुरस्वरेण तं गानं गीतवान् । गानशब्दा अप्यतीतं शैशवं च समुल्लङ्घ्य समागता इव तन्मुखान्निःसरन्ति स्म । गानं श्रावं श्रावं स बाल ईषत् क्रन्दन्नेव निद्राधीनो जातः । सिद्धार्थस्तं वासुदेवशय्यायां शायितवान् । ततश्चल्लयामोदनं पचन्तं वासुदेवं दृष्टवान् । सोऽपि स्मितं कृतवान् ।
१२५