________________
'एषा म्रियमाणाऽस्ति' – सिद्धार्थोमृदुतयोक्तवान् ।।
वासुदेवः शिरश्चालितवान् । चुल्लेरग्नेः प्रकाशस्तस्य मुखे प्रतिभासमान आसीत् । यातनया तस्या वदनं विवर्णं जातमासीत् । स दुःखं संविभजन्निव शान्त्यैकाग्रतया धैर्येण च तस्याः पीडायुक्तं मुखं निरीक्षितवान् । विदग्धा कमला दृष्टिपातेनैवैतदवगतवती ।
___तमेव पश्यन्ती साऽकथयत् – 'मम प्रतिभाति यद् भवतो नयने अपि परावर्तिते स्तः । ते किञ्चिदिव विशिष्टे जाते स्तः । भवानितोऽपि सिद्धार्थ एवेत्येवं भवन्तं कथं प्रत्यभिजानीयाम? यतो भवान् सिद्धार्थः सन्नपि नास्ति तत्सदृशः !'।
सिद्धार्थः किमपि नोवाच । केवलं शान्तभावेन तस्या नयनयोरेव विलोकितवान् ।
'किं भवता स्वध्येयमधिगतम् ? किं भवताऽन्तः शान्तिः प्राप्ता वा ?' - सा पृष्टवती ।।
सिद्धार्थः केवलं स्मितवान्, स्वहस्तं च तद्धस्तोपरि स्थापितवान् ।
'आम्, मम दृश्यते एव; अहमपि शान्ति प्राप्स्याम्येव' - सा सोत्साहमुक्तवती ।
___'भवत्या प्राप्तैव सा किले'ति मृदुस्वरेण सिद्धार्थः कथितवान् ।
कमला स्थिरतया तमेव दृष्टवती । गृहान्निर्गमनकाले हि तस्या उद्देशस्तु गौतमबुद्धस्य दर्शनार्थं गमनमासीत्, तत्र च गत्वोपशमलेशस्य प्राप्तिरासीत्; किन्तु तत्स्थाने सा केवलं सिद्धार्थमेव प्राप्ता । तच्च शोभनमेवाऽऽसीत् तस्याः कृते, तथा शोभनं यथा सा महात्मानं बुद्धं दृष्ट्वाऽन्वभविष्यत् ! एतच्च सा तस्य कथयितुमिष्टवती किन्तु तस्या जिह्वा तदिच्छां नैवाऽनुवर्तितवती । शान्तभावेन सा तं विलोकितवती, स च
१२६