________________
तस्या दृष्टेः क्रमशः क्षीयमाणं जीवनं निरीक्षितवान् । यदा च तस्या नयनतोऽन्तिमः पीडाबिन्दुनिष्क्रान्तः, यदा च तस्या शरीरादन्त्यः कम्पोऽतिक्रान्तः, सिद्धार्थः स्वीयाङ्गुलीभिस्तन्नयनच्छदे पिहितवान् ।
ततः स चिराय तस्या मृतं वदनं निरीक्षमाणस्तत्रैवोपविष्टवान् । तस्या वृद्धं श्रान्तं च मुखं, तस्याः आकुञ्चितावधरौ च विलोक्य स स्मृतवान् यदेकदा, स्वजीवनस्य वसन्तसमये, कथं तेनेमावेवाऽधरौ प्रत्यग्राञ्जीरखण्डेन सहोपमिता-वास्तामिति । दीर्घकालं यावत् स तदीयं गतशोभं वलीपूर्णं चाऽऽननं निविर्णितवान्, सहैव स स्वीयं वदनमपि तादृशमेव विवर्णं मृतप्रायं च जातमस्तीत्यनुभूतवान्, समकालमेव च स तस्याः स्वस्य च वदनं तारुण्यपूर्ण रक्ताधरं भासुरनयनं च साक्षात्कृतवान्, ततश्च वर्तमानस्य समकालीनास्तित्वस्य चाऽनुभूत्याऽऽक्रान्तोऽभवत् । अस्मिन् क्षणे स प्रत्येकं जीवस्याऽविनाशित्वं प्रत्येक क्षणस्य च शाश्वतत्वमत्यन्तं तीव्रतयाऽनुभूतवान् ।
यदा स उत्थितस्तदा वासुदेवेन तस्मै किञ्चिदोदनादिकमशनार्थं दत्तं किन्तु सिद्धार्थस्तन्नैव भुक्तवान् । ततो गोष्ठे, यत्राऽजाऽऽसीत् तत्र, किञ्चन पलालमास्तीर्य वासुदेवः शयितवान्, परन्तु सिद्धार्थः कुटीराद् बहिर्गत्वाऽऽरात्रि नदीमेव शृण्वन्, स्वजीवनस्य च सर्वैरपि कालखण्डैर्युगपदेवाऽऽक्रान्तो व्याप्तश्चाऽतीते न्यमज्जत् । अथाऽपि काले काले समुत्थाय स कुटीरद्वारं गत्वा निरीक्षितवान् यद् बालः स सुप्तोऽस्ति न वेति ।
प्रत्यूषे, वासुदेवो गोष्ठाद् बहिरागत्य स्वमित्रपार्वं गतवान् । 'भवान् नैव शयितः खलु !' - स पृष्टवान् । 'नैव वासुदेव !, अहमत्रैव नदीं शृण्वन्नुपविष्टः । सा मां
१२७