________________
क्व सन्ति ते ब्राह्मणाः पुरोहिता विपश्चितश्च यैरिदं परमज्ञानं न केवलं सफलतया प्राप्तमेव अपि त्वनुभूतमपि ? क्व वा ते विद्यावन्तः कृतसंस्कारा वा सन्ति ये सुषुप्तावात्मानमुपलभ्य जागृतावपि तं धारयितुं समर्थाः ? आजीवनं, मनसो वाचः कायस्य कर्मकालेऽपि !
सिद्धार्थो बहून् गुणवतो ब्राह्मणान् जानाति स्म । सर्वेषामप्युपरिष्टात् तु तत्र पवित्र आदरणीयो बहुश्रुतो विद्वान् तस्य पितैवाऽऽसीत् । तद्व्यक्तित्वमनुपमं चरितं च शान्तमुदात्तं चाऽऽसीत् । तस्य जीवनं निर्दोषमासीत् । तस्य वाणी वैदग्ध्यपूर्णाऽऽसीत्, उत्तमाः सुन्दराश्च विचारास्तन्मस्तिष्कमधिष्ठितवन्तः । ‘किन्तु तादृशः प्रज्ञावानपि स किं सानन्दं जीवति स्म वा ? तदन्त:करणे शमानुभूतिर्भवति स्म वा ? किं सोऽपि तत्त्वान्वेषको नाऽऽसीत् ? किं तस्याऽप्यतृप्तिर्नैव पीडयति स्म वा ?'
'कयाचिदतृप्ततृष्णयैव किं सोऽपि पवित्रतीर्थस्थानानि वारं वारं न पर्यटति स्म ? यागान् नाऽऽचरति स्म ? शास्त्राणि न परिशीलयति स्म वा ? ब्राह्मणानां च परिसंवादेषु भागं न वहति स्म ? किमर्थम् ? किमर्थं ननु तादृशेन निष्पापवृत्तेनाऽपि तत्पित्रा प्रत्यहं स्वीयपापानि क्षालयितुं स्वं च स्वच्छयितुं प्रयतितव्यम् ? तत् किं तदभ्यन्तरे आत्मा नाऽऽसीद् वा ? अथवा किं स आत्मानं नैव जानाति स्म वा ? किं तस्य हृदये निरालम्बसुखस्य स्रोतो नाऽऽसीद् वा ? वस्तुतः स्वेन स्वात्मन्येव तत् स्रोतोऽन्वेष्टव्यं प्राप्तव्यं च। ततोऽन्यद्धि सर्वमप्यस्ति भ्रमणं व्यामोहश्च' ।
एते एतादृशाश्चाऽन्ये विचारा बहुशः सिद्धार्थस्य चित्ते उद्भवन्ति स्म ये तच्चित्ते काञ्चनाऽतोषणीयां तृषं गभीरं च विषादं जनयन्ति स्म ।
७