________________
कर्तव्यतयोचितावास्ताम् ?'
' तथा सोऽप्यात्मा कुत्राऽन्वेष्टव्यः ? स कुत्र वा वसति स्म ? कुत्र वा तस्य शाश्वतं स्पन्दनं भवति स्म ऋते प्रत्येकं मनुष्यस्याऽऽन्तरतमं स्वम् ?'
‘परन्त्विदमप्यान्तरतमं स्वं कुत्र विद्यते ? किं वाऽस्ति तत् ? तन्नहि केवलं मांसमस्थि वा, नाऽपि च विचार: संवेदनं वा । एतदेव ननु पण्डितैरुपदिष्टमासीत् । परन्तु तर्हि स कुत्र विद्यमान आस्ते? तं ज्ञातुं शोधयितुं वाऽन्यः को वा पन्था स्यात् ? न कश्चिदपि तं दर्शितवान् ज्ञातवान् वा न तस्य पिता, न ब्राह्मणाः, नैव च पवित्रा मन्त्राः स्तोत्राणि वा' ।
'ब्राह्मणाः सर्वमपि जानन्ति तेषां शास्त्रेषु च सर्वमपि ज्ञापितमस्ति । आम्, सर्वमपि लिखितमस्ति तत्र । तेषां गतिः सर्वत्राऽप्रतिहताऽऽसीत् - जगतः सृष्टिः, वाच उत्पत्तिः, अन्नं, श्वासोच्छ्वासाः, इन्द्रियाणां समारचनं, देवानां कार्याणीत्यादिषु सर्वत्र । तैर्हि सङ्ख्यातीतानि वस्तूनि ज्ञातानि । एवं सत्यपि यदि तैरेकमेव परमं वस्तु नैव ज्ञातं तर्हि सर्वेषामप्येतेषां वस्तूनां ज्ञानस्य किं वा मूल्यं स्यात् ?'
'वेदानां बहूनि सूक्तानि विशेषतश्च सामवेदस्योपनिषद इदमान्तरतमं तत्त्वमेव वर्णयन्ति स्म । “आत्मैव जगदिदं सर्वम्" इति तत्र वर्णितमस्ति । “मनुष्यः सुषुप्तावन्तःकरणं प्रविश्याऽऽत्मन्येव निवसति' इत्यपि तत्र कथितमस्ति । एतानि सूक्तानि ह्यद्भुतया विद्यया पूर्णान्यासन् । मधुमक्षिकाभिः शुद्धं मधु इव ऋषिभिः सर्वमपि विज्ञानं मधुरया भाषया तत्रैव सङ्गृहीतमासीत्' । 'नैव नैव नैव, विदुषां ब्राह्मणानां सुज्ञया परम्परया सङ्गृहीतं संरक्षितं चेदमप्रमेयं ज्ञानं नैवाऽस्त्युपेक्षार्हम् । किन्तु
६