________________
नैकशः स छान्दोग्योपनिषदो वचनमेतदावर्त्तयति स्म मनसि -
__“स वा एष आत्मा । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति । अहरहर्वा एवंचित् स्वर्गलोकमेति' ।
एवं चाऽऽवर्तयतस्तस्य बहुशः स 'स्वर्गलोकः' निकटतमः प्रतिभाति स्म, किन्तु न स कदाऽपि तं प्राप्तवान्, न च कदाऽपि तस्य तीव्रा तृट् शान्ताऽभवत् । किञ्च यानपि महाविदुषः स जानाति स्म येषां चोपदेशं श्रुत्वा प्रसन्नो भवति स्म, तेषामेकतमोऽपि तं स्वर्गलोकं न पूर्णतया प्राप्तवान् कदाचित्, नाऽपि च तदीया तृट् शान्ता जाता किल ।
अथाऽन्यदा यथापूर्वं सिद्धार्थो गोविन्दमाहूतवान् - "गोविन्द ! मया सह वटवृक्षसमीपमागच्छतु, आवां तत्र ध्यानाभ्यासं करिष्यावः" ।
तौ गतौ । वटवृक्षस्य चाऽधस्तात् परस्परं किञ्चिद् दूरमुपविष्टौ । तत ओङ्कारस्योच्चारणात् पूर्वं सिद्धार्थो मृदुस्वरेण श्लोकमेनमुदितवान् –
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ __ ततो द्वावपि ध्यानमग्नौ बभूवतुः । यदा च ध्यानस्य निश्चितः कालः पूर्णोऽभवत् तदा गोविन्दः स्वासनादुत्थितः । सन्ध्याकालः सन्निहित आसीदतः सान्ध्यविधिमाचरितुं समयोऽयमिति विचिन्त्य तेन सिद्धार्थ आहूतः । किन्तु स नैवोदतरत् । स हि ध्याने गाढं लीन आसीत् । तदक्षिणी दूरतमं किञ्चन लक्ष्यं पश्यतीव स्थिरे आस्ताम् । जिह्वाग्रं च दन्तयोर्मध्ये मनाग् दृश्यते स्म, श्वासोच्छ्वासौ चाऽत्यन्तं सूक्ष्मीभूतौ । एवं च स ओङ्कारस्य ध्याने सर्वथा मग्न आसीत्, तस्य चाऽऽत्मा