________________
शर इव ब्रह्म प्रति प्रेषित इव प्रतिभाति स्म । इत्थं च तत्प्रवृत्तयो बहुतरामन्तर्मुखा अभवन् ।
अथैकदा केचन श्रमणाः सिद्धार्थस्य नगरे विहरन्तः समागता आसन् । ते हि त्रयः पर्यटकास्तापसा आसन् – अतीव कृशदेहाः क्लान्ता मध्यमवयसश्च । तेषां स्कन्धौ मलमलिनौ रक्तक्लिन्नौ चाऽऽस्तां, शरीरं च नग्नप्रायं सूर्यातपेन च दग्धमिवाऽऽताम्रवर्णमासीत् । ते एकाकिनो विलक्षणा जगद्विमुखाश्च सन्तो मनुजसमाजेऽवसन्नाः शृगाला इव प्रत्यभासन्त । तेषां परित उपशान्तभावस्योच्छिन्नदेहोपचारस्य निर्दयात्मसंयम-स्य चाऽऽभा विलसमानाऽऽसीत् ।
तस्मिन् सायङ्काले ध्यानं समाप्य सिद्धार्थो गोविन्दमकथयत् - "वयस्य ! श्वः प्रातः सिद्धार्थः श्रमणैः सह गमिष्यति । स श्रमणो भविष्यति" ।
सिद्धार्थस्य कृतनिश्चयं वदनं दृष्ट्वा, धनुषः शर इव तन्मुखान्निर्गतांस्ततश्चाऽप्रतिनिवर्तमानान् शब्दांश्चैतान् श्रुत्वा गोविन्दः स्तब्धो जातः । मित्रस्य मुखं विलोक्यैव स ज्ञातवान् यद् – “अयमारम्भो जातोऽस्ति । सिद्धार्थः स्वनिश्चिते मार्ग एव गन्तुमुत्कोऽस्ति । तस्य भावि स्वयमेवोद्घटमानमासीत्, तेन च सह गोविन्दस्य स्वीया नियतिरपि" । तन्मुखं शुष्ककदलीफलत्वच इव विवर्णं जातम् । स उच्चैः पृष्टवान् – “किन्तु सिद्धार्थ ! भवतः पिताऽत्राऽर्थेऽनुमंस्यते वा ?"
सहसा प्रतिबुद्ध इव सिद्धार्थस्तत्समक्षं विलोकितवान् । विद्युद्वेगेन तेन तत्र गोविन्दस्य चित्तं, तच्चिन्ता, निजेच्छानुवर्तनप्रगुणता च पठिता । स मृदुतयोक्तवान् - "गोविन्द ! आवां वृथैव शब्दानां व्ययं न करिष्यावः । अयं हि मे निर्णयोऽस्ति यत्, श्वस्तने प्रभातेऽहं श्रमणजीवनं प्रारप्स्ये । इतः परमस्य चर्चा