________________
माऽस्तु" ।
गृहं प्राप्य सिद्धार्थस्तत्राऽपवरके गतो यत्र तत्पिता दर्भासने उपविष्ट आसीत् । सः स्वपितुः पृष्ठभागे तावत्कालं स्थितो यावत् तत्पिता तदुपस्थितिमलक्षयत्, “अरे ! सिद्धार्थ ! त्वमसि वा ? किमर्थमत्र स्थितोऽसि ? किमपि कथनीयं वर्तते वा ? वद तावत्" इति च पृष्टवान् ।।
सिद्धार्थः कथितवान् – “तात ! अहं कथयितुमागतोऽस्मि यत् श्वः प्रभातेऽहं भवदाज्ञया गृहं त्यक्त्वा श्रमणतापसैः सम्मीलितुं श्रामण्यं चाऽङ्गीकर्तुमभिलषामि । अत्र चाऽर्थे भवतो न काऽप्यापत्तिः स्यादिति मम श्रद्धाऽस्ति" ।
एतच्छ्रुत्वा चिरकालं यावत् ब्राह्मणो मौनमाश्रितवान् । यदा तस्मिन्नपवरके शान्तेर्भङ्गो जातस्तदा तत्र स्थिते लघुवातायने दृश्यमानं नभो बयस्तारका अतिक्रान्ता आसन, गतिरपि च तासां परावृत्ताऽऽसीत् । किन्तु पुत्रस्तत्रैव किल हस्तौ बद्ध्वा शान्तः स्थिरश्च स्थितवानासीत्, पिताऽपि च तथैव निजे कुशासने उपविष्ट आसीत् । ततश्च पिता तं कथितवान् – “निष्ठुरं कोपाकुलं वा वचनं ब्राह्मणानां कृतेऽनुचितमस्ति । किन्तु मम हृदयेऽसन्तोषो वर्तते । इतः परमहमिमां विज्ञप्तिं श्रोतुं सिद्धो नाऽस्मि" ।
शनैः स आसनादुत्थितवान् । परन्तु सिद्धार्थस्तत्रैव तस्यामेव च मुद्रायां मौनं स्थितवानासीत् । एतद् दृष्ट्वा पिता पृष्टवान् – “इदानीमपि किं वा प्रतीक्षसे ?" "तत् तु भवान् जानात्येव" - सिद्धार्थ उदतरत् ।।
श्रुत्वैतदप्रसन्नीभूतस्तत्पिता ततो निर्गतः, स्वशय्यायां च सुप्तवान् । किन्तु तन्नयनयोर्निद्रा नाऽऽयाति स्म । प्रायशो मुहूर्तानन्तरं स पुनरुत्थितवान्, इतस्ततः सञ्चर्य ततो गृहाद् बहिरागतवांश्च । लघोर्वातायनात् तेन दृष्टं यत् - इतोऽपि सिद्धार्थस्तत्रैवाऽपवरके