________________
तस्यामेव मुद्रायां निश्चलतया स्थितोऽस्तीति । तस्य मलिनं नेपथ्यं चन्द्रप्रभायां प्रभासमानमासीत् । एतद् दृष्ट्वा खिन्नहृदयस्तत्पिता स्वीयशय्यां प्रतिनिवृत्तः ।।
मुहूर्तान्तरं पुनरपि विगतनिद्रोऽसौ पुनरप्यागतस्तत्र, तं च तथैव दृष्ट्वा दुःखितः सन् प्रतिनिवृत्तः । एवं प्रतिमुहूर्तं स आगच्छति स्म, सिद्धार्थं च तथैव चन्द्रज्योत्स्नायां, तारकद्युतौ तमसि वा स्थितं विलोकयति स्म । एतेन तस्य हृदयं समकालमेव रुषा, चिन्तया, शुचा, भयेन च पूरितम् ।
अथ रात्रेरन्तिमे यामे प्रत्यूषात् पूर्वं स पुनरप्यागतस्तत्र, सिद्धार्थं च तथैव स्थितं दृष्टवान् । उन्नतोऽयं युवा तस्याऽपरिचित इव प्रतिभाति स्म ।
___ "सिद्धार्थ !" - सोऽवदत्, “किमर्थं त्वमत्र स्थितोऽसि?"
"भवान् जानात्येव पितः !" । "किं त्वमेवमेव समग्रं दिनमारात्रि च स्थास्यसि वा?" "आम्, अहं स्थास्यामि प्रतीक्षां च करिष्ये" । "त्वं श्रान्तो भविष्यसि सिद्धार्थ !" "भवतु पितः !" "निद्रा त्वां बाधिष्यते" । "मैवं पितः ! निद्रा मां नैव बाधिष्यते" । "त्वं मरिष्यसि भोः !" "नाऽहं बिभेमि मरणात पितः !" "पित्राज्ञापालनादपि मरणं तेऽधिकं रोचते वा ?" "सिद्धार्थेन पितुराज्ञा न कदाऽपि लोपिता" । "तहि त्वं स्वनिर्णीतं त्यक्ष्यसि वा ?" "पिता यत् कथयिष्यति तदेव सिद्धार्थः करिष्यति" ।