________________
तावतोषसः प्रत्यग्रप्रभया सोऽपवरकः प्रकाशितो जात: । ब्राह्मणेन दृष्टं यत् पुत्रस्य पादौ मनाक् कम्पेते स्म किन्तु तन्मुखं निष्प्रकम्पमासीत् नेत्रे च सुदूरं निरीक्षेते स्म ।
'सिद्धार्थो मया सहाऽत्र गृहे चिराय नैव स्थाता' इति तन्मनसि प्रतिभातं, ‘ननु तेन गृहमिदं त्यक्तमेवाऽस्ति' । अतस्तेन सिद्धार्थस्कन्धोपरि हस्तं निधाय मृदुतयोक्तं " वत्स ! त्वं सुखेन वनं गच्छ, श्रामण्यं चाऽङ्गीकुर्याः । यदि त्वया तत्र शान्तिः प्राप्येत तदाऽत्राऽऽगत्य ममाऽपि तत्प्राप्तिप्रक्रियां शिक्षयेः । यदि च त्वं तत्र निराशो भवेस्तदाऽपि प्रतिनिवर्तस्व, आवां पुनरपि यज्ञं समारचयिष्यावः । गच्छेदानीं स्वमातृपार्श्वे, निवेदय च तस्यै स्वीयं निर्णयम् । ततस्तां प्रणम्य तदाशिषा स्वकार्यं साधय । मम त्वधुना प्रातर्विध्यर्थं नदीगमनस्य समयो जातोऽस्ति" ।
ततः स स्वहस्तमुत्थाप्य यावद् बहिर्गन्तुमारब्धस्तावता सिद्धार्थेन स्वस्थानाच्चलितुं प्रयतितम् । यद्यपि स मनाक् कम्पितोऽ ऽभवत्, तथाऽपि स्वयमेव स्वं संयम्य पितरं प्रणतवान् मातुश्च पार्श्वे गत्वा पित्रादेशानुसारं सर्वमपि निवेदितवान् ।
ततो जडीभूताभ्यामिव पादाभ्यां स प्रत्यूषे इतोऽपि निद्रितं नगरं परित्यज्य यावन्निःसृतस्तावदेव नम्रीभूतैका छायाऽन्तिमादुटजाद् बहिरागत्य तेन सह मीलिता । स गोविन्द आसीत् ।
सिद्धार्थः सस्मितं तमभ्यवादयत् – “ तर्हि भवानप्यागतो
ननु ?"
—
"आम्, अहमागतोऽस्मि' ', स उदतरत् ॥
१२