________________
किन्तु कीदृशोऽयं मार्गो, यत्र मया बहूनि मौर्ष्यानि, बहूनि पापाचरणानि, बहूनि स्खलनानि समाचरितानि प्रभूतो निर्वेदः, भूयांश्च भ्रमः शोकश्चाऽनुभूतः । केवलं पुनरपि बाल्यप्राप्त्यै पुनरारम्भाय च । किन्तु, एतत् समुचितमेव जातम् । मेऽक्षिणी हसतो हृदयं च स्वीकुरुते । एतत् प्रति मया निराशाऽनुभवितव्याऽऽसीदेव, गहने विचारगर्ते निमज्जनीयमासीदेव, स्वात्मघातोऽपि च विचारणीय आसीदेव - किमर्थम् ? पुनः सौन्दर्य प्राप्तुं, पुनः ओङ्कारं श्रोतुं, गाढतया शयितुं, याथार्थ्येन च पुनर्जागर्तुम् । मय्येव ममाऽऽत्मानं प्राप्तुं मया मौर्यमाचरणीयमेवाऽऽसीत् । पुनर्जीवनं प्राप्तुं मया पापाचरणं कर्तव्यमेवाऽऽसीत् । चिन्तयामि - अग्रे कुत्राऽयं मार्गो मां नेष्यति ? यतोऽयं पन्था अपि मन्ये मूर्ख एव । मन्ये स भ्रम्याकारेण व्रजति अथवा वृत्ताकारेण गच्छति । भवतु यथाकथमपि स व्रजतु नाम, अहं तमनुसरिष्याम्येव ।
अपि च, तस्याऽन्तःकरणे आनन्दस्योत्सा एव समुच्छलन्ति स्मेति सततमनुभूतवान् सः । स स्वमेव पृष्टवान् - 'कुत एते समागच्छन्ति खलु ? किमर्थमहमानन्दौघमनुभवन्नस्मि । किमहं गाढतया शयितवानित्येतदर्थमहं तमनुभवामि वा ? अथवा ओङ्कारप्रभावादेष उद्गतोऽस्ति वा किम् ? किमथवाऽहं तस्मादसमञ्जसात् पलायितोऽस्मि पलायनं च मम सिद्धं जातमित्येतदर्थं वा, ततश्चाऽहं विमुक्तोऽभवं बालकवच्चाऽनन्ताकाशस्याऽधस्तात् सहजतया स्थितोऽस्मि - तदर्थं वा ? अहो ! मम पलायनं कीदृक् शुभं समस्ति, विमुक्तिश्चाऽपि । यस्मात् स्थानाच्चाऽहं पलायितस्तत्र तु सर्वदा तीव्रतमविलासस्योन्मादस्य प्रमादस्य च वातावरणमासीत् । अहं ह्युन्मतवत् तत्र मद्यपानं द्यूतक्रीडनं च कुर्वन्नपि कथं धनिकानां तादृशां जीवनं तिरस्कुर्वन्नासम् । कथं
१०६